महाभारतMahābhārata

MBh, 13, 43

1724 of 1995 · 57 verses

Select a line for its word-by-word analysis.

1.1१.१

भीष्म उवाच । (१।१)

bhīṣma uvāca

1.2१.२

तम् आगतम् अभिप्रेक्ष्य शिष्यं वाक्यम् अथाब्रवीत् । (१।२)

tam āgatam abhiprekṣya śiṣyaṃ vākyam athābravīt |

1.3१.३

देवशर्मा महातेजा यत् तच्छृणु नराधिप ॥ (१।३)

devaśarmā mahātejā yat tacchṛṇu narādhipa ||

2.1२.१

देवशर्मोवाच । (२।१)

devaśarmovāca |

2.2२.२

किं ते विपुल दृष्टं वै तस्मिन्न् अद्य महावने । (२।२)

kiṃ te vipula dṛṣṭaṃ vai tasminn adya mahāvane |

2.3२.३

ते त्वा जानन्ति निपुण आत्मा च रुचिर् एव च ॥ (२।३)

te tvā jānanti nipuṇa ātmā ca rucir eva ca ||

3.1३.१

विपुल उवाच । (३।१)

vipula uvāca

3.2३.२

ब्रह्मर्षे मिथुनं किं तत् के च ते पुरुषा विभो । (३।२)

brahmarṣe mithunaṃ kiṃ tat ke ca te puruṣā vibho |

3.3३.३

ये मां जानन्ति तत्त्वेन तांश्च मे वक्तुम् अर्हसि ॥ (३।३)

ye māṃ jānanti tattvena tāṃśca me vaktum arhasi ||

4.1४.१

देवशर्मोवाच । (४।१)

devaśarmovāca |

4.2४.२

यद् वै तन्मिथुनं ब्रह्मन्न् अहोरात्रं हि विद्धि तत् । (४।२)

yad vai tanmithunaṃ brahmann ahorātraṃ hi viddhi tat |

4.3४.३

चक्रवत् परिवर्तेत तत् ते जानाति दुष्कृतम् ॥ (४।३)

cakravat parivarteta tat te jānāti duṣkṛtam ||

5.1५.१

ये च ते पुरुषा विप्र अक्षैर् दीव्यन्ति हृष्टवत् । (५।१)

ye ca te puruṣā vipra akṣair dīvyanti hṛṣṭavat |

5.2५.२

ऋतूंस्तान् अभिजानीहि ते ते जानन्ति दुष्कृतम् ॥ (५।२)

ṛtūṃstān abhijānīhi te te jānanti duṣkṛtam ||

6.1६.१

न मां कश्चिद् विजानीत इति कृत्वा न विश्वसेत् । (६।१)

na māṃ kaścid vijānīta iti kṛtvā na viśvaset |

6.2६.२

नरो रहसि पापात्मा पापकं कर्म वै द्विज ॥ (६।२)

naro rahasi pāpātmā pāpakaṃ karma vai dvija ||

7.1७.१

कुर्वाणं हि नरं कर्म पापं रहसि सर्वदा । (७।१)

kurvāṇaṃ hi naraṃ karma pāpaṃ rahasi sarvadā |

7.2७.२

पश्यन्ति ऋतवश्चापि तथा दिननिशे ऽप्युत ॥ (७।२)

paśyanti ṛtavaścāpi tathā dinaniśe 'pyuta ||

8.1८.१

ते त्वां हर्षस्मितं दृष्ट्वा गुरोः कर्मानिवेदकम् । (८।१)

te tvāṃ harṣasmitaṃ dṛṣṭvā guroḥ karmānivedakam |

8.2८.२

स्मारयन्तस्तथा प्राहुस्ते यथा श्रुतवान् भवान् ॥ (८।२)

smārayantastathā prāhuste yathā śrutavān bhavān ||

9.1९.१

अहोरात्रं विजानाति ऋतवश्चापि नित्यशः । (९।१)

ahorātraṃ vijānāti ṛtavaścāpi nityaśaḥ |

9.2९.२

पुरुषे पापकं कर्म शुभं वा शुभकर्मणः ॥ (९।२)

puruṣe pāpakaṃ karma śubhaṃ vā śubhakarmaṇaḥ ||

10.1१०.१

तत् त्वया मम यत् कर्म व्यभिचाराद् भयात्मकम् । (१०।१)

tat tvayā mama yat karma vyabhicārād bhayātmakam |

10.2१०.२

नाख्यातम् इति जानन्तस्ते त्वाम् आहुस्तथा द्विज ॥ (१०।२)

nākhyātam iti jānantaste tvām āhustathā dvija ||

11.1११.१

ते चैव हि भवेयुस्ते लोकाः पापकृतो यथा । (११।१)

te caiva hi bhaveyuste lokāḥ pāpakṛto yathā |

11.2११.२

कृत्वा नाचक्षतः कर्म मम यच्च त्वया कृतम् ॥ (११।२)

kṛtvā nācakṣataḥ karma mama yacca tvayā kṛtam ||

12.1१२.१

तथा शक्या च दुर्वृत्ता रक्षितुं प्रमदा द्विज । (१२।१)

tathā śakyā ca durvṛttā rakṣituṃ pramadā dvija |

12.2१२.२

न च त्वं कृतवान् किंचिद् आगः प्रीतो ऽस्मि तेन ते ॥ (१२।२)

na ca tvaṃ kṛtavān kiṃcid āgaḥ prīto 'smi tena te ||

13.1१३.१

यदि त्वहं त्वा दुर्वृत्तम् अद्राक्षं द्विजसत्तम । (१३।१)

yadi tvahaṃ tvā durvṛttam adrākṣaṃ dvijasattama |

13.2१३.२

शपेयं त्वाम् अहं क्रोधान्न मे ऽत्रास्ति विचारणा ॥ (१३।२)

śapeyaṃ tvām ahaṃ krodhānna me 'trāsti vicāraṇā ||

14.1१४.१

सजन्ति पुरुषे नार्यः पुंसां सो ऽर्थश्च पुष्कलः । (१४।१)

sajanti puruṣe nāryaḥ puṃsāṃ so 'rthaśca puṣkalaḥ |

14.2१४.२

अन्यथा रक्षतः शापो ऽभविष्यत् ते गतिश्च सा ॥ (१४।२)

anyathā rakṣataḥ śāpo 'bhaviṣyat te gatiśca sā ||

15.1१५.१

रक्षिता सा त्वया पुत्र मम चापि निवेदिता । (१५।१)

rakṣitā sā tvayā putra mama cāpi niveditā |

15.2१५.२

अहं ते प्रीतिमांस्तात स्वस्ति स्वर्गं गमिष्यसि ॥ (१५।२)

ahaṃ te prītimāṃstāta svasti svargaṃ gamiṣyasi ||

16.1१६.१

भीष्म उवाच । (१६।१)

bhīṣma uvāca

16.2१६.२

इत्युक्त्वा विपुलं प्रीतो देवशर्मा महान् ऋषिः । (१६।२)

ityuktvā vipulaṃ prīto devaśarmā mahān ṛṣiḥ |

16.3१६.३

मुमोद स्वर्गम् आस्थाय सहभार्यः सशिष्यकः ॥ (१६।३)

mumoda svargam āsthāya sahabhāryaḥ saśiṣyakaḥ ||

17.1१७.१

इदम् आख्यातवांश्चापि ममाख्यानं महामुनिः । (१७।१)

idam ākhyātavāṃścāpi mamākhyānaṃ mahāmuniḥ |

17.2१७.२

मार्कण्डेयः पुरा राजन् गङ्गाकूले कथान्तरे ॥ (१७।२)

mārkaṇḍeyaḥ purā rājan gaṅgākūle kathāntare ||

18.1१८.१

तस्माद् ब्रवीमि पार्थ त्वा स्त्रियः सर्वाः सदैव च । (१८।१)

tasmād bravīmi pārtha tvā striyaḥ sarvāḥ sadaiva ca |

18.2१८.२

उभयं दृश्यते तासु सततं साध्वसाधु च ॥ (१८।२)

ubhayaṃ dṛśyate tāsu satataṃ sādhvasādhu ca ||

19.1१९.१

स्त्रियः साध्व्यो महाभागाः संमता लोकमातरः । (१९।१)

striyaḥ sādhvyo mahābhāgāḥ saṃmatā lokamātaraḥ |

19.2१९.२

धारयन्ति महीं राजन्न् इमां सवनकाननाम् ॥ (१९।२)

dhārayanti mahīṃ rājann imāṃ savanakānanām ||

20.1२०.१

असाध्व्यश्चापि दुर्वृत्ताः कुलघ्न्यः पापनिश्चयाः । (२०।१)

asādhvyaścāpi durvṛttāḥ kulaghnyaḥ pāpaniścayāḥ |

20.2२०.२

विज्ञेया लक्षणैर् दुष्टैः स्वगात्रसहजैर् नृप ॥ (२०।२)

vijñeyā lakṣaṇair duṣṭaiḥ svagātrasahajair nṛpa ||

21.1२१.१

एवम् एतासु रक्षा वै शक्या कर्तुं महात्मभिः । (२१।१)

evam etāsu rakṣā vai śakyā kartuṃ mahātmabhiḥ |

21.2२१.२

अन्यथा राजशार्दूल न शक्या रक्षितुं स्त्रियः ॥ (२१।२)

anyathā rājaśārdūla na śakyā rakṣituṃ striyaḥ ||

22.1२२.१

एता हि मनुजव्याघ्र तीक्ष्णास्तीक्ष्णपराक्रमाः । (२२।१)

etā hi manujavyāghra tīkṣṇāstīkṣṇaparākramāḥ |

22.2२२.२

नासाम् अस्ति प्रियो नाम मैथुने संगमे नृभिः ॥ (२२।२)

nāsām asti priyo nāma maithune saṃgame nṛbhiḥ ||

23.1२३.१

एताः कृत्याश्च कार्याश्च कृताश्च भरतर्षभ । (२३।१)

etāḥ kṛtyāśca kāryāśca kṛtāśca bharatarṣabha |

23.2२३.२

न चैकस्मिन् रमन्त्येताः पुरुषे पाण्डुनन्दन ॥ (२३।२)

na caikasmin ramantyetāḥ puruṣe pāṇḍunandana ||

24.1२४.१

नासु स्नेहो नृभिः कार्यस्तथैवेर्ष्या जनेश्वर । (२४।१)

nāsu sneho nṛbhiḥ kāryastathaiverṣyā janeśvara |

24.2२४.२

खेदम् आस्थाय भुञ्जीत धर्मम् आस्थाय चैव हि ॥ (२४।२)

khedam āsthāya bhuñjīta dharmam āsthāya caiva hi ||

25.1२५.१

विहन्येतान्यथा कुर्वन्नरः कौरवनन्दन । (२५।१)

vihanyetānyathā kurvannaraḥ kauravanandana |

25.2२५.२

सर्वथा राजशार्दूल युक्तिः सर्वत्र पूज्यते ॥ (२५।२)

sarvathā rājaśārdūla yuktiḥ sarvatra pūjyate ||

26.1२६.१

तेनैकेन तु रक्षा वै विपुलेन कृता स्त्रियाः । (२६।१)

tenaikena tu rakṣā vai vipulena kṛtā striyāḥ |

26.2२६.२

नान्यः शक्तो नृलोके ऽस्मिन् रक्षितुं नृप योषितः ॥ (२६।२)

nānyaḥ śakto nṛloke 'smin rakṣituṃ nṛpa yoṣitaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 13, 43

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit