महाभारतMahābhārata

MBh, 3, 279

577 of 1995 · 52 verses

Select a line for its word-by-word analysis.

1.1१.१

मार्कण्डेय उवाच । (१।१)

mārkaṇḍeya uvāca

1.2१.२

अथ कन्याप्रदाने स तम् एवार्थं विचिन्तयन् । (१।२)

atha kanyāpradāne sa tam evārthaṃ vicintayan |

1.3१.३

समानिन्ये च तत् सर्वं भाण्डं वैवाहिकं नृपः ॥ (१।३)

samāninye ca tat sarvaṃ bhāṇḍaṃ vaivāhikaṃ nṛpaḥ ||

2.1२.१

ततो वृद्धान् द्विजान् सर्वान् ऋत्विजः सपुरोहितान् । (२।१)

tato vṛddhān dvijān sarvān ṛtvijaḥ sapurohitān |

2.2२.२

समाहूय तिथौ पुण्ये प्रययौ सह कन्यया ॥ (२।२)

samāhūya tithau puṇye prayayau saha kanyayā ||

3.1३.१

मेध्यारण्यं स गत्वा च द्युमत्सेनाश्रमं नृपः । (३।१)

medhyāraṇyaṃ sa gatvā ca dyumatsenāśramaṃ nṛpaḥ |

3.2३.२

पद्भ्याम् एव द्विजैः सार्धं राजर्षिं तम् उपागमत् ॥ (३।२)

padbhyām eva dvijaiḥ sārdhaṃ rājarṣiṃ tam upāgamat ||

4.1४.१

तत्रापश्यन् महाभागं शालवृक्षम् उपाश्रितम् । (४।१)

tatrāpaśyan mahābhāgaṃ śālavṛkṣam upāśritam |

4.2४.२

कौश्यां बृस्यां समासीनं चक्षुर्हीनं नृपं तदा ॥ (४।२)

kauśyāṃ bṛsyāṃ samāsīnaṃ cakṣurhīnaṃ nṛpaṃ tadā ||

5.1५.१

स राजा तस्य राजर्षेः कृत्वा पूजां यथार्हतः । (५।१)

sa rājā tasya rājarṣeḥ kṛtvā pūjāṃ yathārhataḥ |

5.2५.२

वाचा सुनियतो भूत्वा चकारात्मनिवेदनम् ॥ (५।२)

vācā suniyato bhūtvā cakārātmanivedanam ||

6.1६.१

तस्यार्घ्यम् आसनं चैव गां चावेद्य स धर्मवित् । (६।१)

tasyārghyam āsanaṃ caiva gāṃ cāvedya sa dharmavit |

6.2६.२

किम् आगमनम् इत्येवं राजा राजानम् अब्रवीत् ॥ (६।२)

kim āgamanam ityevaṃ rājā rājānam abravīt ||

7.1७.१

तस्य सर्वम् अभिप्रायम् इतिकर्तव्यतां च ताम् । (७।१)

tasya sarvam abhiprāyam itikartavyatāṃ ca tām |

7.2७.२

सत्यवन्तं समुद्दिश्य सर्वम् एव न्यवेदयत् ॥ (७।२)

satyavantaṃ samuddiśya sarvam eva nyavedayat ||

8.1८.१

अश्वपतिर् उवाच । (८।१)

aśvapatir uvāca

8.2८.२

सावित्री नाम राजर्षे कन्येयं मम शोभना । (८।२)

sāvitrī nāma rājarṣe kanyeyaṃ mama śobhanā |

8.3८.३

तां स्वधर्मेण धर्मज्ञ स्नुषार्थे त्वं गृहाण मे ॥ (८।३)

tāṃ svadharmeṇa dharmajña snuṣārthe tvaṃ gṛhāṇa me ||

9.1९.१

द्युमत्सेन उवाच । (९।१)

dyumatsena uvāca

9.2९.२

च्युताः स्म राज्याद् वनवासम् आश्रिताश्चराम धर्मं नियतास् तपस्विनः । (९।२)

cyutāḥ sma rājyād vanavāsam āśritāścarāma dharmaṃ niyatās tapasvinaḥ |

9.3९.३

कथं त्वनर्हा वनवासम् आश्रमे सहिष्यते क्लेशम् इमं सुता तव ॥ (९।३)

kathaṃ tvanarhā vanavāsam āśrame sahiṣyate kleśam imaṃ sutā tava ||

10.1१०.१

अश्वपतिर् उवाच । (१०।१)

aśvapatir uvāca

10.2१०.२

सुखं च दुःखं च भवाभवात्मकं यदा विजानाति सुताहम् एव च । (१०।२)

sukhaṃ ca duḥkhaṃ ca bhavābhavātmakaṃ yadā vijānāti sutāham eva ca |

10.3१०.३

न मद्विधे युज्यति वाक्यम् ईदृशं विनिश्चयेनाभिगतो ऽस्मि ते नृप ॥ (१०।३)

na madvidhe yujyati vākyam īdṛśaṃ viniścayenābhigato 'smi te nṛpa ||

11.1११.१

आशां नार्हसि मे हन्तुं सौहृदाद् प्रणयेन च । (११।१)

āśāṃ nārhasi me hantuṃ sauhṛdād praṇayena ca |

11.2११.२

अभितश्चागतं प्रेम्णा प्रत्याख्यातुं न मार्हसि ॥ (११।२)

abhitaścāgataṃ premṇā pratyākhyātuṃ na mārhasi ||

12.1१२.१

अनुरूपो हि संयोगे त्वं ममाहं तवापि च । (१२।१)

anurūpo hi saṃyoge tvaṃ mamāhaṃ tavāpi ca |

12.2१२.२

स्नुषां प्रतीच्छ मे कन्यां भार्यां सत्यवतः सुताम् ॥ (१२।२)

snuṣāṃ pratīccha me kanyāṃ bhāryāṃ satyavataḥ sutām ||

13.1१३.१

द्युमत्सेन उवाच । (१३।१)

dyumatsena uvāca

13.2१३.२

पूर्वम् एवाभिलषितः सम्बन्धो मे त्वया सह । (१३।२)

pūrvam evābhilaṣitaḥ sambandho me tvayā saha |

13.3१३.३

भ्रष्टराज्यस्त्वहम् इति तत एतद् विचारितम् ॥ (१३।३)

bhraṣṭarājyastvaham iti tata etad vicāritam ||

14.1१४.१

अभिप्रायस्त्वयं यो मे पूर्वम् एवाभिकाङ्क्षितः । (१४।१)

abhiprāyastvayaṃ yo me pūrvam evābhikāṅkṣitaḥ |

14.2१४.२

स निर्वर्ततु मे ऽद्यैव काङ्क्षितो ह्यसि मे ऽतिथिः ॥ (१४।२)

sa nirvartatu me 'dyaiva kāṅkṣito hyasi me 'tithiḥ ||

15.1१५.१

मार्कण्डेय उवाच । (१५।१)

mārkaṇḍeya uvāca

15.2१५.२

ततः सर्वान् समानीय द्विजान् आश्रमवासिनः । (१५।२)

tataḥ sarvān samānīya dvijān āśramavāsinaḥ |

15.3१५.३

यथाविधि समुद्वाहं कारयामासतुर् नृपौ ॥ (१५।३)

yathāvidhi samudvāhaṃ kārayāmāsatur nṛpau ||

16.1१६.१

दत्त्वा त्वश्वपतिः कन्यां यथार्हं च परिच्छदम् । (१६।१)

dattvā tvaśvapatiḥ kanyāṃ yathārhaṃ ca paricchadam |

16.2१६.२

ययौ स्वम् एव भवनं युक्तः परमया मुदा ॥ (१६।२)

yayau svam eva bhavanaṃ yuktaḥ paramayā mudā ||

17.1१७.१

सत्यवान् अपि भार्यां तां लब्ध्वा सर्वगुणान्विताम् । (१७।१)

satyavān api bhāryāṃ tāṃ labdhvā sarvaguṇānvitām |

17.2१७.२

मुमुदे सा च तं लब्ध्वा भर्तारं मनसेप्सितम् ॥ (१७।२)

mumude sā ca taṃ labdhvā bhartāraṃ manasepsitam ||

18.1१८.१

गते पितरि सर्वाणि संन्यस्याभरणानि सा । (१८।१)

gate pitari sarvāṇi saṃnyasyābharaṇāni sā |

18.2१८.२

जगृहे वल्कलान्येव वस्त्रं काषायम् एव च ॥ (१८।२)

jagṛhe valkalānyeva vastraṃ kāṣāyam eva ca ||

19.1१९.१

परिचारैर्गुणैश्चैव प्रश्रयेण दमेन च । (१९।१)

paricārairguṇaiścaiva praśrayeṇa damena ca |

19.2१९.२

सर्वकामक्रियाभिश्च सर्वेषां तुष्टिम् आवहत् ॥ (१९।२)

sarvakāmakriyābhiśca sarveṣāṃ tuṣṭim āvahat ||

20.1२०.१

श्वश्रूं शरीरसत्कारैः सर्वैर् आच्छादनादिभिः । (२०।१)

śvaśrūṃ śarīrasatkāraiḥ sarvair ācchādanādibhiḥ |

20.2२०.२

श्वशुरं देवकार्यैश्च वाचः संयमनेन च ॥ (२०।२)

śvaśuraṃ devakāryaiśca vācaḥ saṃyamanena ca ||

21.1२१.१

तथैव प्रियवादेन नैपुणेन शमेन च । (२१।१)

tathaiva priyavādena naipuṇena śamena ca |

21.2२१.२

रहश्चैवोपचारेण भर्तारं पर्यतोषयत् ॥ (२१।२)

rahaścaivopacāreṇa bhartāraṃ paryatoṣayat ||

22.1२२.१

एवं तत्राश्रमे तेषां तदा निवसतां सताम् । (२२।१)

evaṃ tatrāśrame teṣāṃ tadā nivasatāṃ satām |

22.2२२.२

कालस् तपस्यतां कश्चिद् अतिचक्राम भारत ॥ (२२।२)

kālas tapasyatāṃ kaścid aticakrāma bhārata ||

23.1२३.१

सावित्र्यास् तु शयानायास्तिष्ठन्त्याश्च दिवानिशम् । (२३।१)

sāvitryās tu śayānāyāstiṣṭhantyāśca divāniśam |

23.2२३.२

नारदेन यद् उक्तं तद् वाक्यं मनसि वर्तते ॥ (२३।२)

nāradena yad uktaṃ tad vākyaṃ manasi vartate ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 3, 279

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit