महाभारतMahābhārata

MBh, 4, 1

598 of 1995 · 210 verses

Select a line for its word-by-word analysis.

1.1१.१

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । (१।१)

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam |

1.2१.२

देवीं सरस्वतीं चैव ततो जयम् उदीरयेत् । (१।२)

devīṃ sarasvatīṃ caiva tato jayam udīrayet |

1.3१.३

द्वैपायनोष्ठपुटनिःसृतम् अप्रमेयं । (१।३)

dvaipāyanoṣṭhapuṭaniḥsṛtam aprameyaṃ |

1.4१.४

पुण्यं पवित्रम् अथ पापहरं शिवं च । (१।४)

puṇyaṃ pavitram atha pāpaharaṃ śivaṃ ca |

1.5१.५

यो भारतं समधिगच्छति वाच्यमानं । (१।५)

yo bhārataṃ samadhigacchati vācyamānaṃ |

1.6१.६

किं तस्य पुष्करजलैर् अभिषेचनेन । (१।६)

kiṃ tasya puṣkarajalair abhiṣecanena |

1.7१.७

तद् एव लग्नं सुदिनं तद् एव । (१।७)

tad eva lagnaṃ sudinaṃ tad eva |

1.8१.८

ताराबलं चन्द्रबलं तद् एव । (१।८)

tārābalaṃ candrabalaṃ tad eva |

1.9१.९

ग्रहाश्च सर्वे सुमुखास्तद् एव । (१।९)

grahāśca sarve sumukhāstad eva |

1.10१.१०

लक्ष्मीपतेर् अङ्घ्रियुगं स्मरेद् यदा । (१।१०)

lakṣmīpater aṅghriyugaṃ smared yadā |

1.11१.११

भाति सर्वेषु शास्त्रेषु रतिः सर्वेषु जन्तुषु । (१।११)

bhāti sarveṣu śāstreṣu ratiḥ sarveṣu jantuṣu |

1.12१.१२

तारणं सर्वलोकेषु तेन भारत उच्यते । (१।१२)

tāraṇaṃ sarvalokeṣu tena bhārata ucyate |

1.13१.१३

भारतं भानुमाइन्दुर् यदि न स्युर् अमी त्रयः । (१।१३)

bhārataṃ bhānumāindur yadi na syur amī trayaḥ |

1.14१.१४

ततो ऽज्ञानतमोऽन्धस्य कावस्था जगतो भवेत् । (१।१४)

tato 'jñānatamo'ndhasya kāvasthā jagato bhavet |

1.15१.१५

व्यासं वसिष्ठनप्तारं शक्तेः पौत्रम् अकल्मषम् । (१।१५)

vyāsaṃ vasiṣṭhanaptāraṃ śakteḥ pautram akalmaṣam |

1.16१.१६

पराशरात्मजं वन्दे शुकतातं तपोनिधिम् । (१।१६)

parāśarātmajaṃ vande śukatātaṃ taponidhim |

1.17१.१७

व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे । (१।१७)

vyāsāya viṣṇurūpāya vyāsarūpāya viṣṇave |

1.18१.१८

नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ॥ (१।१८)

namo vai brahmanidhaye vāsiṣṭhāya namo namaḥ ||

2.1२.१

जनमेजय उवाच । (२।१)

janamejaya uvāca

2.2२.२

कथं विराटनगरे मम पूर्वपितामहाः । (२।२)

kathaṃ virāṭanagare mama pūrvapitāmahāḥ |

2.3२.३

अज्ञातवासम् उषिता दुर्योधनभयार्दिताः । (२।३)

ajñātavāsam uṣitā duryodhanabhayārditāḥ |

2.4२.४

वैशंपायनः । (२।४)

vaiśaṃpāyanaḥ |

2.5२.५

पतिव्रता महाभागा सततं ब्रह्मवादिनी । (२।५)

pativratā mahābhāgā satataṃ brahmavādinī |

2.6२.६

द्रौपदी च कथं ब्रह्मन्न् अज्ञाता दुःखितावसत् । (२।६)

draupadī ca kathaṃ brahmann ajñātā duḥkhitāvasat |

2.7२.७

ते च ब्राह्मणमुख्याश्च सूताः पौरोगवैः सह । (२।७)

te ca brāhmaṇamukhyāśca sūtāḥ paurogavaiḥ saha |

2.8२.८

अज्ञातवासम् अवसन् कथं च परिचारकाः । (२।८)

ajñātavāsam avasan kathaṃ ca paricārakāḥ |

2.9२.९

धर्मेण ते ऽभ्यनुज्ञाताः पाण्डवाः सत्यविक्रमाः । (२।९)

dharmeṇa te 'bhyanujñātāḥ pāṇḍavāḥ satyavikramāḥ |

2.10२.१०

अज्ञातवासं वत्स्यन्तश्छन्ना वर्षं त्रयोदशम् । (२।१०)

ajñātavāsaṃ vatsyantaśchannā varṣaṃ trayodaśam |

2.11२.११

उपोपविश्य विद्वांसः स्नातकाः संशितव्रताः । (२।११)

upopaviśya vidvāṃsaḥ snātakāḥ saṃśitavratāḥ |

2.12२.१२

ये तद्भक्ता वसन्ति स्म वनवासे तपस्विनः । (२।१२)

ye tadbhaktā vasanti sma vanavāse tapasvinaḥ |

2.13२.१३

तान् अब्रुवन्महात्मानः शिष्टाः प्राञ्जलयस्तदा । (२।१३)

tān abruvanmahātmānaḥ śiṣṭāḥ prāñjalayastadā |

2.14२.१४

अभ्यनुज्ञापयिष्यन्तस्तद्विवासं धृतव्रताः । (२।१४)

abhyanujñāpayiṣyantastadvivāsaṃ dhṛtavratāḥ |

2.15२.१५

विदितं भवतां सर्वं धार्तराष्ट्रैर् यथा वयम् । (२।१५)

viditaṃ bhavatāṃ sarvaṃ dhārtarāṣṭrair yathā vayam |

2.16२.१६

छद्मना हृतराज्याश्च निःस्वाश्च बहुशः कृताः । (२।१६)

chadmanā hṛtarājyāśca niḥsvāśca bahuśaḥ kṛtāḥ |

2.17२.१७

उषिताश्च वने वासं यथा द्वादश वत्सरान् । (२।१७)

uṣitāśca vane vāsaṃ yathā dvādaśa vatsarān |

2.18२.१८

भवद्भिर् एव सहिता वन्याहारा द्विजोत्तमाः । (२।१८)

bhavadbhir eva sahitā vanyāhārā dvijottamāḥ |

2.19२.१९

अज्ञातवाससमयं शेषं वर्षं त्रयोदशम् । (२।१९)

ajñātavāsasamayaṃ śeṣaṃ varṣaṃ trayodaśam |

2.20२.२०

तद् वत्स्यामो वयं छन्नास्तद् अनुज्ञातुम् अर्हथ । (२।२०)

tad vatsyāmo vayaṃ channāstad anujñātum arhatha |

2.21२.२१

दुर्योधनश्च दुष्टात्मा कर्णश्च सहसौबलः । (२।२१)

duryodhanaśca duṣṭātmā karṇaśca sahasaubalaḥ |

2.22२.२२

जानन्तो विषमं कुर्युर् अस्मास्वत्यन्तवैरिणः । (२।२२)

jānanto viṣamaṃ kuryur asmāsvatyantavairiṇaḥ |

2.23२.२३

युक्ताचाराश्च युक्ताश्च क्षये स्वस्य जनस्य च । (२।२३)

yuktācārāśca yuktāśca kṣaye svasya janasya ca |

2.24२.२४

दुरात्मनां हि कस्तेषां विश्वासं गन्तुम् अर्हति । (२।२४)

durātmanāṃ hi kasteṣāṃ viśvāsaṃ gantum arhati |

2.25२.२५

अपि नस्तद् भवेद् भूयो यद् वयं ब्राह्मणैः सह । (२।२५)

api nastad bhaved bhūyo yad vayaṃ brāhmaṇaiḥ saha |

2.26२.२६

समस्तेष्वेव राष्ट्रेषु स्वराज्यं स्थापयेमहि । (२।२६)

samasteṣveva rāṣṭreṣu svarājyaṃ sthāpayemahi |

2.27२.२७

इत्युक्त्वा दुःखशोकार्तः शुचिर् धर्मसुतस्तदा । (२।२७)

ityuktvā duḥkhaśokārtaḥ śucir dharmasutastadā |

2.28२.२८

संमूर्छितो ऽभवद् राजा साश्रुकण्ठो युधिष्ठिरः । (२।२८)

saṃmūrchito 'bhavad rājā sāśrukaṇṭho yudhiṣṭhiraḥ |

2.29२.२९

तम् अथाश्वासयन् सर्वे ब्राह्मणा भ्रातृभिः सह । (२।२९)

tam athāśvāsayan sarve brāhmaṇā bhrātṛbhiḥ saha |

2.30२.३०

अथ धौम्यो ऽब्रवीद् वाक्यं महार्थं नृपतिं तदा । (२।३०)

atha dhaumyo 'bravīd vākyaṃ mahārthaṃ nṛpatiṃ tadā |

2.31२.३१

राजन् विद्वान् भवान् दान्तः सत्यसंधो जितेन्द्रियः । (२।३१)

rājan vidvān bhavān dāntaḥ satyasaṃdho jitendriyaḥ |

2.32२.३२

नैवंविधाः प्रमुह्यन्ति नराः कस्यांचिद् आपदि । (२।३२)

naivaṃvidhāḥ pramuhyanti narāḥ kasyāṃcid āpadi |

2.33२.३३

देवैर् अप्यापदः प्राप्ताश्छन्नैश्च बहुभिस्तदा । (२।३३)

devair apyāpadaḥ prāptāśchannaiśca bahubhistadā |

2.34२.३४

तत्र तत्र सपत्नानां निग्रहार्थं महात्मभिः । (२।३४)

tatra tatra sapatnānāṃ nigrahārthaṃ mahātmabhiḥ |

2.35२.३५

इन्द्रेण निषधं प्राप्य गिरिप्रस्थाश्रमे तदा । (२।३५)

indreṇa niṣadhaṃ prāpya giriprasthāśrame tadā |

2.36२.३६

छन्नेनोष्य कृतं कर्म द्विषतां बलनिग्रहे । (२।३६)

channenoṣya kṛtaṃ karma dviṣatāṃ balanigrahe |

2.37२.३७

दितेः पुत्रैर् हृते राज्ये देवराजो ऽतिदुःखितः । (२।३७)

diteḥ putrair hṛte rājye devarājo 'tiduḥkhitaḥ |

2.38२.३८

ब्राह्मणं तोषयिष्यंश्च ब्रह्मरूपं निधाय च । (२।३८)

brāhmaṇaṃ toṣayiṣyaṃśca brahmarūpaṃ nidhāya ca |

2.39२.३९

प्रसादाद् ब्रह्मणो राजन् दितेः पुत्रान्महाबलान् । (२।३९)

prasādād brahmaṇo rājan diteḥ putrānmahābalān |

2.40२.४०

निर्जित्य तरसा शत्रून् पुनर् लोकाञ्जुगोप ह । (२।४०)

nirjitya tarasā śatrūn punar lokāñjugopa ha |

2.41२.४१

विष्णुनाश्मगिरिं प्राप्य तदादित्यां निवत्स्यता । (२।४१)

viṣṇunāśmagiriṃ prāpya tadādityāṃ nivatsyatā |

2.42२.४२

गर्भे वधार्थं दैत्यानाम् अज्ञातेनोषितं चिरम् । (२।४२)

garbhe vadhārthaṃ daityānām ajñātenoṣitaṃ ciram |

2.43२.४३

प्रोष्य वामनरूपेण प्रच्छन्नं ब्रह्मचारिणा । (२।४३)

proṣya vāmanarūpeṇa pracchannaṃ brahmacāriṇā |

2.44२.४४

बलेर् यथा हृतं राज्यं विक्रमैस्तच्च ते श्रुतम् । (२।४४)

baler yathā hṛtaṃ rājyaṃ vikramaistacca te śrutam |

2.45२.४५

और्वेण वसता छन्नम् ऊरौ ब्रह्मर्षिणा तदा । (२।४५)

aurveṇa vasatā channam ūrau brahmarṣiṇā tadā |

2.46२.४६

यत् कृतं तात लोकेषु तच्च सर्वं श्रुतं त्वया । (२।४६)

yat kṛtaṃ tāta lokeṣu tacca sarvaṃ śrutaṃ tvayā |

2.47२.४७

प्रच्छन्नं चापि धर्मज्ञ हरिणा वृत्रनिग्रहे । (२।४७)

pracchannaṃ cāpi dharmajña hariṇā vṛtranigrahe |

2.48२.४८

वज्रं प्रविश्य शक्रस्य यत् कृतं तच्च ते श्रुतम् । (२।४८)

vajraṃ praviśya śakrasya yat kṛtaṃ tacca te śrutam |

2.49२.४९

हुताशनेन यच्चापः प्रविश्य छन्नम् आसता । (२।४९)

hutāśanena yaccāpaḥ praviśya channam āsatā |

2.50२.५०

विबुधानां हितं कर्म कृतं तच्चापि ते श्रुतम् । (२।५०)

vibudhānāṃ hitaṃ karma kṛtaṃ taccāpi te śrutam |

2.51२.५१

तथा विवस्वता तात छन्नेनोत्तमतेजसा । (२।५१)

tathā vivasvatā tāta channenottamatejasā |

2.52२.५२

निर्दग्धाः शत्रवः सर्वे वसता गवि वर्षशः । (२।५२)

nirdagdhāḥ śatravaḥ sarve vasatā gavi varṣaśaḥ |

2.53२.५३

विष्णुना वसता चापि गृहे दशरथस्य च । (२।५३)

viṣṇunā vasatā cāpi gṛhe daśarathasya ca |

2.54२.५४

दशग्रीवो हतश्छन्नं संयुगे भीमकर्मणा । (२।५४)

daśagrīvo hataśchannaṃ saṃyuge bhīmakarmaṇā |

2.55२.५५

एवम् एते महात्मानः प्रच्छन्नास्तत्र तत्र ह । (२।५५)

evam ete mahātmānaḥ pracchannāstatra tatra ha |

2.56२.५६

अजयञ्छात्रवान्मुख्यांस्तथा त्वम् अपि जेष्यसि । (२।५६)

ajayañchātravānmukhyāṃstathā tvam api jeṣyasi |

2.57२.५७

इति धौम्येन धर्मज्ञो वाक्यैः सम्परिहर्षितः । (२।५७)

iti dhaumyena dharmajño vākyaiḥ sampariharṣitaḥ |

2.58२.५८

शास्त्रबुद्धिः पुनर् भूत्वा व्यष्टम्भत युधिष्ठिरः । (२।५८)

śāstrabuddhiḥ punar bhūtvā vyaṣṭambhata yudhiṣṭhiraḥ |

2.59२.५९

अथाब्रवीन्महाबाहुर् भीमसेनो महाबलः । (२।५९)

athābravīnmahābāhur bhīmaseno mahābalaḥ |

2.60२.६०

राजानं बलिनां श्रेष्ठो गिरा सम्परिहर्षयन् । (२।६०)

rājānaṃ balināṃ śreṣṭho girā sampariharṣayan |

2.61२.६१

अवेक्षय महाराज तव गाण्डीवधन्वना । (२।६१)

avekṣaya mahārāja tava gāṇḍīvadhanvanā |

2.62२.६२

धर्मानुगतया बुद्ध्या न किंचित् साहसं कृतम् । (२।६२)

dharmānugatayā buddhyā na kiṃcit sāhasaṃ kṛtam |

2.63२.६३

सहदेवो मया नित्यं नकुलश्च निवारितः । (२।६३)

sahadevo mayā nityaṃ nakulaśca nivāritaḥ |

2.64२.६४

शक्तौ विध्वंसने तेषां शत्रुघ्नौ भीमविक्रमौ । (२।६४)

śaktau vidhvaṃsane teṣāṃ śatrughnau bhīmavikramau |

2.65२.६५

न वयं वर्त्म हास्यामो यस्मिन् योक्ष्यति नो भवान् । (२।६५)

na vayaṃ vartma hāsyāmo yasmin yokṣyati no bhavān |

2.66२.६६

तद् विधत्तां भवान् सर्वं क्षिप्रं जेष्यामहे परान् । (२।६६)

tad vidhattāṃ bhavān sarvaṃ kṣipraṃ jeṣyāmahe parān |

2.67२.६७

इत्युक्ते भीमसेनेन ब्राह्मणाः परमाशिषः । (२।६७)

ityukte bhīmasenena brāhmaṇāḥ paramāśiṣaḥ |

2.68२.६८

प्रयुज्यापृच्छ्य भरतान् यथास्वान् प्रययुर् गृहान् । (२।६८)

prayujyāpṛcchya bharatān yathāsvān prayayur gṛhān |

2.69२.६९

सर्वे वेदविदो मुख्या यतयो मुनयस्तदा । (२।६९)

sarve vedavido mukhyā yatayo munayastadā |

2.70२.७०

आशीर् उक्त्वा यथान्यायं पुनर्दर्शनकाङ्क्षिणः । (२।७०)

āśīr uktvā yathānyāyaṃ punardarśanakāṅkṣiṇaḥ |

2.71२.७१

ते तु भृत्याश्च दूताश्च शिल्पिनः परिचारकाः । (२।७१)

te tu bhṛtyāśca dūtāśca śilpinaḥ paricārakāḥ |

2.72२.७२

अनुज्ञाप्य यथान्यायं पुनर्दर्शनकाङ्क्षिणः । (२।७२)

anujñāpya yathānyāyaṃ punardarśanakāṅkṣiṇaḥ |

2.73२.७३

सह धौम्येन विद्वांसस्तथा ते पञ्च पाण्डवाः । (२।७३)

saha dhaumyena vidvāṃsastathā te pañca pāṇḍavāḥ |

2.74२.७४

उत्थाय प्रययुर् वीराः कृष्णाम् आदाय भारत । (२।७४)

utthāya prayayur vīrāḥ kṛṣṇām ādāya bhārata |

2.75२.७५

क्रोशमात्रम् अतिक्रम्य तस्माद् वासान्निमित्ततः । (२।७५)

krośamātram atikramya tasmād vāsānnimittataḥ |

2.76२.७६

श्वोभूते मनुजव्याघ्राश्छन्नवासार्थम् उद्यताः । (२।७६)

śvobhūte manujavyāghrāśchannavāsārtham udyatāḥ |

2.77२.७७

पृथक् शास्त्रविदः सर्वे सर्वे मन्त्रविशारदाः । (२।७७)

pṛthak śāstravidaḥ sarve sarve mantraviśāradāḥ |

2.78२.७८

संधिविग्रहकालज्ञा मन्त्राय समुपाविशन् ॥ (२।७८)

saṃdhivigrahakālajñā mantrāya samupāviśan ||

3.1३.१

वैशंपायन उवाच । (३।१)

vaiśaṃpāyana uvāca

3.2३.२

यथा विराटनगरे तव पूर्वपितामहाः । (३।२)

yathā virāṭanagare tava pūrvapitāmahāḥ |

3.3३.३

अज्ञातवासम् उषितास्तच्छृणुष्व नराधिप । (३।३)

ajñātavāsam uṣitāstacchṛṇuṣva narādhipa |

3.4३.४

निवृत्तवनवासास्ते सत्यसंधा यशस्विनः । (३।४)

nivṛttavanavāsāste satyasaṃdhā yaśasvinaḥ |

3.5३.५

अकुर्वत पुनर् मन्त्रं सह धौम्येन पाण्डवाः । (३।५)

akurvata punar mantraṃ saha dhaumyena pāṇḍavāḥ |

3.6३.६

अथाब्रवीद् धर्मराजः कुन्तीपुत्रो युधिष्ठिरः । (३।६)

athābravīd dharmarājaḥ kuntīputro yudhiṣṭhiraḥ |

3.7३.७

भ्रातॄन् कृष्णां च सम्प्रेक्ष्य धौम्यं च कुरुनन्दन । (३।७)

bhrātṝn kṛṣṇāṃ ca samprekṣya dhaumyaṃ ca kurunandana |

3.8३.८

तथा तु स वरांल्लब्ध्वा धर्माद् धर्मभृतां वरः । (३।८)

tathā tu sa varāṃllabdhvā dharmād dharmabhṛtāṃ varaḥ |

3.9३.९

गत्वाश्रमं ब्राह्मणेभ्य आचख्यौ सर्वम् एव तत् ॥ (३।९)

gatvāśramaṃ brāhmaṇebhya ācakhyau sarvam eva tat ||

4.1४.१

कथयित्वा तु तत् सर्वं ब्राह्मणेभ्यो युधिष्ठिरः । (४।१)

kathayitvā tu tat sarvaṃ brāhmaṇebhyo yudhiṣṭhiraḥ |

4.2४.२

अरणीसहितं तस्मै ब्राह्मणाय न्यवेदयत् ॥ (४।२)

araṇīsahitaṃ tasmai brāhmaṇāya nyavedayat ||

5.1५.१

ततो युधिष्ठिरो राजा धर्मपुत्रो महामनाः । (५।१)

tato yudhiṣṭhiro rājā dharmaputro mahāmanāḥ |

5.2५.२

संनिवर्त्यानुजान् सर्वान् इति होवाच भारत ॥ (५।२)

saṃnivartyānujān sarvān iti hovāca bhārata ||

6.1६.१

द्वादशेमानि वर्षाणि राष्ट्राद् विप्रोषिता वयम् । (६।१)

dvādaśemāni varṣāṇi rāṣṭrād viproṣitā vayam |

6.2६.२

छद्मना हृतराज्याश्च निःस्वाश्च बहुशः कृताः । (६।२)

chadmanā hṛtarājyāśca niḥsvāśca bahuśaḥ kṛtāḥ |

6.3६.३

उषिताश्च वने कृच्छ्रं यथा द्वादश वत्सरान् । (६।३)

uṣitāśca vane kṛcchraṃ yathā dvādaśa vatsarān |

6.4६.४

अज्ञातचर्यां वत्स्याम छन्ना वर्षं त्रयोदशम् । (६।४)

ajñātacaryāṃ vatsyāma channā varṣaṃ trayodaśam |

6.5६.५

त्रयोदशो ऽयं सम्प्राप्तः कृच्छ्रः परमदुर्वसः । (६।५)

trayodaśo 'yaṃ samprāptaḥ kṛcchraḥ paramadurvasaḥ |

6.6६.६

संवत्सरम् इमं यत्र विहरेम निरामयम् ॥ (६।६)

saṃvatsaram imaṃ yatra viharema nirāmayam ||

7.1७.१

स साधु कौन्तेय इतो वासम् अर्जुन रोचय । (७।१)

sa sādhu kaunteya ito vāsam arjuna rocaya |

7.2७.२

अबुद्धा धार्तराष्ट्राणां सहिताः सह कृष्णया । (७।२)

abuddhā dhārtarāṣṭrāṇāṃ sahitāḥ saha kṛṣṇayā |

7.3७.३

संवत्सरम् इदं यत्र विचराम यथासुखम् । (७।३)

saṃvatsaram idaṃ yatra vicarāma yathāsukham |

7.4७.४

यत्रेमा वसतीः सर्वा वसेमाविदिताः परैः ॥ (७।४)

yatremā vasatīḥ sarvā vasemāviditāḥ paraiḥ ||

8.1८.१

अर्जुन उवाच । (८।१)

arjuna uvāca

8.2८.२

तस्यैव वरदानेन धर्मस्य मनुजाधिप । (८।२)

tasyaiva varadānena dharmasya manujādhipa |

8.3८.३

अज्ञाता विचरिष्यामो नराणां भरतर्षभ ॥ (८।३)

ajñātā vicariṣyāmo narāṇāṃ bharatarṣabha ||

9.1९.१

किं तु वासाय राष्ट्राणि कीर्तयिष्यामि कानिचित् । (९।१)

kiṃ tu vāsāya rāṣṭrāṇi kīrtayiṣyāmi kānicit |

9.2९.२

रमणीयानि गुप्तानि तेषां किंचित् स्म रोचय ॥ (९।२)

ramaṇīyāni guptāni teṣāṃ kiṃcit sma rocaya ||

10.1१०.१

सन्ति रम्या जनपदा बह्वन्नाः परितः कुरून् । (१०।१)

santi ramyā janapadā bahvannāḥ paritaḥ kurūn |

10.2१०.२

पाञ्चालाश्चेदिमत्स्याश्च शूरसेनाः पटच्चराः । (१०।२)

pāñcālāścedimatsyāśca śūrasenāḥ paṭaccarāḥ |

10.3१०.३

दशार्णा नवराष्ट्रं च मल्लाः शाल्वा युगंधराः । (१०।३)

daśārṇā navarāṣṭraṃ ca mallāḥ śālvā yugaṃdharāḥ |

10.4१०.४

कुन्तिराष्ट्रं च विस्तीर्णं सुराष्ट्रावन्तयस्तथा । (१०।४)

kuntirāṣṭraṃ ca vistīrṇaṃ surāṣṭrāvantayastathā |

10.5१०.५

विराटनगरं चापि श्रूयते शत्रुकर्शन । (१०।५)

virāṭanagaraṃ cāpi śrūyate śatrukarśana |

10.6१०.६

रमणीयं जनाकीर्णं सुभिक्षं स्फीतम् एव च । (१०।६)

ramaṇīyaṃ janākīrṇaṃ subhikṣaṃ sphītam eva ca |

10.7१०.७

नानाराष्ट्राणि चान्यानि श्रूयन्ते सुबहून्यपि ॥ (१०।७)

nānārāṣṭrāṇi cānyāni śrūyante subahūnyapi ||

11.1११.१

एतेषां कतमो राजन्निवासस्तव रोचते । (११।१)

eteṣāṃ katamo rājannivāsastava rocate |

11.2११.२

वत्स्यामो यत्र राजेन्द्र संवत्सरम् इमं वयम् । (११।२)

vatsyāmo yatra rājendra saṃvatsaram imaṃ vayam |

11.3११.३

यत्र ते रोचते राजंस्तत्र गच्छामहे वयम् । (११।३)

yatra te rocate rājaṃstatra gacchāmahe vayam |

11.4११.४

कतमस्मिञ्जनपदे महाराज निवत्स्यसि । (११।४)

katamasmiñjanapade mahārāja nivatsyasi |

11.5११.५

मा विषादे मनः कुर्याद् राज्यभ्रंश इति क्वचित् ॥ (११।५)

mā viṣāde manaḥ kuryād rājyabhraṃśa iti kvacit ||

12.1१२.१

युधिष्ठिर उवाच । (१२।१)

yudhiṣṭhira uvāca

12.2१२.२

एवम् एतन्महाबाहो यथा स भगवान् प्रभुः । (१२।२)

evam etanmahābāho yathā sa bhagavān prabhuḥ |

12.3१२.३

अब्रवीत् सर्वभूतेशस्तत् तथा न तद् अन्यथा ॥ (१२।३)

abravīt sarvabhūteśastat tathā na tad anyathā ||

13.1१३.१

अवश्यं त्वेव वासार्थं रमणीयं शिवं सुखम् । (१३।१)

avaśyaṃ tveva vāsārthaṃ ramaṇīyaṃ śivaṃ sukham |

13.2१३.२

संमन्त्र्य सहितैः सर्वैर् द्रष्टव्यम् अकुतोभयम् । (१३।२)

saṃmantrya sahitaiḥ sarvair draṣṭavyam akutobhayam |

13.3१३.३

देशः पुण्यः समुद्दिष्टः सर्वबाधाविवर्जितः । (१३।३)

deśaḥ puṇyaḥ samuddiṣṭaḥ sarvabādhāvivarjitaḥ |

13.4१३.४

यस्य यस्य वचो हीदं समहर्षत पाण्डवान् ॥ (१३।४)

yasya yasya vaco hīdaṃ samaharṣata pāṇḍavān ||

14.1१४.१

मत्स्यो विराटो बलवान् अभिरक्षेत् स पाण्डवान् । (१४।१)

matsyo virāṭo balavān abhirakṣet sa pāṇḍavān |

14.2१४.२

धर्मशीलो वदान्यश्च वृद्धश्च सुमहाधनः । (१४।२)

dharmaśīlo vadānyaśca vṛddhaśca sumahādhanaḥ |

14.3१४.३

गुणवांल्लोकविख्यातो दृढभक्तिर् विशारदः । (१४।३)

guṇavāṃllokavikhyāto dṛḍhabhaktir viśāradaḥ |

14.4१४.४

तत्र मे रोचते पार्थ मत्स्यराजान्तिके ऽनघ ॥ (१४।४)

tatra me rocate pārtha matsyarājāntike 'nagha ||

15.1१५.१

विराटनगरे तात संवत्सरम् इमं वयम् । (१५।१)

virāṭanagare tāta saṃvatsaram imaṃ vayam |

15.2१५.२

कुर्वन्तस्तस्य कर्माणि विहरिष्याम भारत ॥ (१५।२)

kurvantastasya karmāṇi vihariṣyāma bhārata ||

16.1१६.१

यानि यानि च कर्माणि तस्य शक्ष्यामहे वयम् । (१६।१)

yāni yāni ca karmāṇi tasya śakṣyāmahe vayam |

16.2१६.२

कर्तुं यो यत् स तत् कर्म ब्रवीतु कुरुनन्दनाः ॥ (१६।२)

kartuṃ yo yat sa tat karma bravītu kurunandanāḥ ||

17.1१७.१

अर्जुन उवाच । (१७।१)

arjuna uvāca

17.2१७.२

नरदेव कथं कर्म राष्ट्रे तस्य करिष्यसि । (१७।२)

naradeva kathaṃ karma rāṣṭre tasya kariṣyasi |

17.3१७.३

विराटनृपतेः साधो रंस्यसे केन कर्मणा । (१७।३)

virāṭanṛpateḥ sādho raṃsyase kena karmaṇā |

17.4१७.४

अक्लिष्टवेषधारी च धार्मिको ह्यनसूयकः । (१७।४)

akliṣṭaveṣadhārī ca dhārmiko hyanasūyakaḥ |

17.5१७.५

न तवाभ्युचितं कर्म नृशंसं नापि कैतवम् । (१७।५)

na tavābhyucitaṃ karma nṛśaṃsaṃ nāpi kaitavam |

17.6१७.६

सत्यवाग् असि याज्ञीको लोभक्रोधविवर्जितः ॥ (१७।६)

satyavāg asi yājñīko lobhakrodhavivarjitaḥ ||

18.1१८.१

मृदुर् वदान्यो ह्रीमांश्च धार्मिकः सत्यविक्रमः । (१८।१)

mṛdur vadānyo hrīmāṃśca dhārmikaḥ satyavikramaḥ |

18.2१८.२

राजंस्त्वम् आपदा क्लिष्टः किं करिष्यसि पाण्डव ॥ (१८।२)

rājaṃstvam āpadā kliṣṭaḥ kiṃ kariṣyasi pāṇḍava ||

19.1१९.१

न दुःखम् उचितं किंचिद् राजन् वेद यथा जनः । (१९।१)

na duḥkham ucitaṃ kiṃcid rājan veda yathā janaḥ |

19.2१९.२

स इमाम् आपदं प्राप्य कथं घोरां तरिष्यसि । (१९।२)

sa imām āpadaṃ prāpya kathaṃ ghorāṃ tariṣyasi |

19.3१९.३

अर्जुनेनैवम् उक्तस्तु प्रत्युवाच युधिष्ठिरः ॥ (१९।३)

arjunenaivam uktastu pratyuvāca yudhiṣṭhiraḥ ||

20.1२०.१

युधिष्ठिर उवाच । (२०।१)

yudhiṣṭhira uvāca

20.2२०.२

शृणुध्वं यत् करिष्यामि कर्म वै कुरुनन्दनाः । (२०।२)

śṛṇudhvaṃ yat kariṣyāmi karma vai kurunandanāḥ |

20.3२०.३

विराटम् अनुसंप्राप्य राजानं पुरुषर्षभम् ॥ (२०।३)

virāṭam anusaṃprāpya rājānaṃ puruṣarṣabham ||

21.1२१.१

सभास्तारो भविष्यामि तस्य राज्ञो महात्मनः । (२१।१)

sabhāstāro bhaviṣyāmi tasya rājño mahātmanaḥ |

21.2२१.२

कङ्को नाम द्विजो भूत्वा मताक्षः प्रियदेविता ॥ (२१।२)

kaṅko nāma dvijo bhūtvā matākṣaḥ priyadevitā ||

22.1२२.१

वैडूर्यान् काञ्चनान् दान्तान् फलैर् ज्योतीरसैः सह । (२२।१)

vaiḍūryān kāñcanān dāntān phalair jyotīrasaiḥ saha |

22.2२२.२

कृष्णाक्षांल्लोहिताक्षांश्च निर्वर्त्स्यामि मनोरमान् । (२२।२)

kṛṣṇākṣāṃllohitākṣāṃśca nirvartsyāmi manoramān |

22.3२२.३

अरिष्टान् राजगोलिङ्गान् दर्शनीयान् सुवर्चसः । (२२।३)

ariṣṭān rājagoliṅgān darśanīyān suvarcasaḥ |

22.4२२.४

लोहितांश्चाश्मगर्भांश्च सन्ति तात धनानि मे । (२२।४)

lohitāṃścāśmagarbhāṃśca santi tāta dhanāni me |

22.5२२.५

दर्शनीयान् सभानन्दान् कुशलैः साधु निष्ठितान् । (२२।५)

darśanīyān sabhānandān kuśalaiḥ sādhu niṣṭhitān |

22.6२२.६

अप्येतान् पाणिना स्पृष्ट्वा सम्प्रहृष्यन्ति मानवाः । (२२।६)

apyetān pāṇinā spṛṣṭvā samprahṛṣyanti mānavāḥ |

22.7२२.७

तान् विकीर्य समे देशे रमणीये विपांसुले । (२२।७)

tān vikīrya same deśe ramaṇīye vipāṃsule |

22.8२२.८

देविष्यामि यथाकामं स विहारो भविष्यति । (२२।८)

deviṣyāmi yathākāmaṃ sa vihāro bhaviṣyati |

22.9२२.९

कङ्को नाम्ना परिव्राट् च विराटस्य सभासदः । (२२।९)

kaṅko nāmnā parivrāṭ ca virāṭasya sabhāsadaḥ |

22.10२२.१०

ज्योतिषे शकुनज्ञाने निमित्ते चाक्षकौशले । (२२।१०)

jyotiṣe śakunajñāne nimitte cākṣakauśale |

22.11२२.११

ब्राह्मो वेदो मयाधीतो वेदाङ्गानि च सर्वशः । (२२।११)

brāhmo vedo mayādhīto vedāṅgāni ca sarvaśaḥ |

22.12२२.१२

धर्मकामार्थमोक्षेषु नीतिशास्त्रेषु पारगः । (२२।१२)

dharmakāmārthamokṣeṣu nītiśāstreṣu pāragaḥ |

22.13२२.१३

पृष्टो ऽहं कथयिष्यामि राज्ञः प्रियहितं वचः । (२२।१३)

pṛṣṭo 'haṃ kathayiṣyāmi rājñaḥ priyahitaṃ vacaḥ |

22.14२२.१४

विराटनगरे छन्न एवंयुक्तः सदा वसे । (२२।१४)

virāṭanagare channa evaṃyuktaḥ sadā vase |

22.15२२.१५

विराटराजं रमयन् सामात्यं सहबान्धवम् । (२२।१५)

virāṭarājaṃ ramayan sāmātyaṃ sahabāndhavam |

22.16२२.१६

न च मां वेत्स्यते कश्चित् तोषयिष्ये च तं नृपम् ॥ (२२।१६)

na ca māṃ vetsyate kaścit toṣayiṣye ca taṃ nṛpam ||

23.1२३.१

आसं युधिष्ठिरस्याहं पुरा प्राणसमः सखा । (२३।१)

āsaṃ yudhiṣṭhirasyāhaṃ purā prāṇasamaḥ sakhā |

23.2२३.२

इति वक्ष्यामि राजानं यदि माम् अनुयोक्ष्यते ॥ (२३।२)

iti vakṣyāmi rājānaṃ yadi mām anuyokṣyate ||

24.1२४.१

इत्येतद् वो मयाख्यातं विहरिष्याम्यहं यथा । (२४।१)

ityetad vo mayākhyātaṃ vihariṣyāmyahaṃ yathā |

24.2२४.२

वैशंपायनः । (२४।२)

vaiśaṃpāyanaḥ |

24.3२४.३

एवं निर्दिश्य चात्मानं निःश्वसन्न् उष्णम् आर्तिजम् । (२४।३)

evaṃ nirdiśya cātmānaṃ niḥśvasann uṣṇam ārtijam |

24.4२४.४

विमुञ्चन्न् अश्रु नेत्राभ्यां भीमसेनम् उवाच ह । (२४।४)

vimuñcann aśru netrābhyāṃ bhīmasenam uvāca ha |

24.5२४.५

युधिष्ठिरः । (२४।५)

yudhiṣṭhiraḥ |

24.6२४.६

भीमसेन कथं कर्म तस्य राष्ट्रे करिष्यसि । (२४।६)

bhīmasena kathaṃ karma tasya rāṣṭre kariṣyasi |

24.7२४.७

हत्वा क्रोधवशांस्तात पर्वते गन्धमादने । (२४।७)

hatvā krodhavaśāṃstāta parvate gandhamādane |

24.8२४.८

यक्षान् क्रोधाभिताम्राक्षान् राक्षसांश्चातिपौरुषान् । (२४।८)

yakṣān krodhābhitāmrākṣān rākṣasāṃścātipauruṣān |

24.9२४.९

प्रादाः पाञ्चालकन्यायै पद्मानि सुबहून्यपि । (२४।९)

prādāḥ pāñcālakanyāyai padmāni subahūnyapi |

24.10२४.१०

बकं राक्षसराजानं भीषणं पुरुषादकम् । (२४।१०)

bakaṃ rākṣasarājānaṃ bhīṣaṇaṃ puruṣādakam |

24.11२४.११

जघ्निवान् असि कौन्तेय ब्राह्मणार्थम् अरिंदम । (२४।११)

jaghnivān asi kaunteya brāhmaṇārtham ariṃdama |

24.12२४.१२

क्षेमा चाभयसंवीता सैकचक्रा त्वया कृता । (२४।१२)

kṣemā cābhayasaṃvītā saikacakrā tvayā kṛtā |

24.13२४.१३

हिडिम्बं च महावीर्यं किम्मीरं चातिपौरुषम् । (२४।१३)

hiḍimbaṃ ca mahāvīryaṃ kimmīraṃ cātipauruṣam |

24.14२४.१४

त्वया हत्वा महाबाहो वनं निष्कण्टकं कृतम् । (२४।१४)

tvayā hatvā mahābāho vanaṃ niṣkaṇṭakaṃ kṛtam |

24.15२४.१५

आपदं चापि सम्प्राप्ता द्रौपदी चारुहासिनी । (२४।१५)

āpadaṃ cāpi samprāptā draupadī cāruhāsinī |

24.16२४.१६

जटासुरवधं कृत्वा वयं च परिमोक्षिताः । (२४।१६)

jaṭāsuravadhaṃ kṛtvā vayaṃ ca parimokṣitāḥ |

24.17२४.१७

मत्स्यराजान्तिके तात वीर्यपूर्णो ऽत्यमर्षणः । (२४।१७)

matsyarājāntike tāta vīryapūrṇo 'tyamarṣaṇaḥ |

24.18२४.१८

वृकोदर विराटस्य बलवान् दुर्बलीयसः । (२४।१८)

vṛkodara virāṭasya balavān durbalīyasaḥ |

24.19२४.१९

समीपे नगरे तस्य । (२४।१९)

samīpe nagare tasya |

24.20२४.२०

मध्ये निवासं भीमस्य दुष्करं तस्य भूपतेः । (२४।२०)

madhye nivāsaṃ bhīmasya duṣkaraṃ tasya bhūpateḥ |

24.21२४.२१

वृकोदर विराटे त्वं रंस्यसे केन कर्मणा । (२४।२१)

vṛkodara virāṭe tvaṃ raṃsyase kena karmaṇā |

24.22२४.२२

श्रुत्वा स देवो नरदेवकर्म । (२४।२२)

śrutvā sa devo naradevakarma |

24.23२४.२३

प्रपूज्य वाक्यं तम् उवाच धीमान् । (२४।२३)

prapūjya vākyaṃ tam uvāca dhīmān |

24.24२४.२४

स्वकर्मयुक्तं च हितं च काले । (२४।२४)

svakarmayuktaṃ ca hitaṃ ca kāle |

24.25२४.२५

विमृश्यवाग्मी प्रविहाय चिन्ताम् ॥ (२४।२५)

vimṛśyavāgmī pravihāya cintām ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 4, 1

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit