MBh, 3, 166
Select a line for its word-by-word analysis.
ततो ऽहं स्तूयमानस्तु तत्र तत्र महर्षिभिः । (१।२)
tato 'haṃ stūyamānastu tatra tatra maharṣibhiḥ |
अपश्यम् उदधिं भीमम् अपाम्पतिम् अथाव्ययम् ॥ (१।३)
apaśyam udadhiṃ bhīmam apāmpatim athāvyayam ||
फेनवत्यः प्रकीर्णाश् च संहताश् च समुच्छ्रिताः । (२।१)
phenavatyaḥ prakīrṇāś ca saṃhatāś ca samucchritāḥ |
नावः सहस्रशस् तत्र रत्नपूर्णाः समन्ततः ॥ (२।३)
nāvaḥ sahasraśas tatra ratnapūrṇāḥ samantataḥ ||
तिमिङ्गिलाः कच्छपाश् च तथा तिमितिमिंगिलाः । (३।१)
timiṅgilāḥ kacchapāś ca tathā timitimiṃgilāḥ |
शङ्खानां च सहस्राणि मग्नान्य् अप्सु समन्ततः । (४।१)
śaṅkhānāṃ ca sahasrāṇi magnāny apsu samantataḥ |
दृश्यन्ते स्म यथा रात्रौ तारास् तन्वभ्रसंवृताः ॥ (४।२)
dṛśyante sma yathā rātrau tārās tanvabhrasaṃvṛtāḥ ||
तथा सहस्रशस् तत्र रत्नसंघाः प्लवन्त्युत । (५।१)
tathā sahasraśas tatra ratnasaṃghāḥ plavantyuta |
वायुश् च घूर्णते भीमस् तद् अद्भुतम् इवाभवत् ॥ (५।२)
vāyuś ca ghūrṇate bhīmas tad adbhutam ivābhavat ||
तम् अतीत्य महावेगं सर्वाम्भोनिधिम् उत्तमम् । (६।१)
tam atītya mahāvegaṃ sarvāmbhonidhim uttamam |
अपश्यं दानवाकीर्णं तद् दैत्यपुरम् अन्तिकात् ॥ (६।२)
apaśyaṃ dānavākīrṇaṃ tad daityapuram antikāt ||
रथघोषं तु तं श्रुत्वा स्तनयित्नोर् इवाम्बरे । (८।१)
rathaghoṣaṃ tu taṃ śrutvā stanayitnor ivāmbare |
ततो द्वाराणि पिदधुर् दानवास् त्रस्तचेतसः । (१०।१)
tato dvārāṇi pidadhur dānavās trastacetasaḥ |
संविधाय पुरे रक्षां न स्म कश्चन दृश्यते ॥ (१०।२)
saṃvidhāya pure rakṣāṃ na sma kaścana dṛśyate ||
पुरम् आसुरम् आश्लिष्य प्राधमं तं शनैर् अहम् ॥ (११।२)
puram āsuram āśliṣya prādhamaṃ taṃ śanair aham ||
स तु शब्दो दिवं स्तब्ध्वा प्रतिशब्दम् अजीजनत् । (१२।१)
sa tu śabdo divaṃ stabdhvā pratiśabdam ajījanat |
वित्रेसुश्च निलिल्युश्च भूतानि सुमहान्त्यपि ॥ (१२।२)
vitresuśca nililyuśca bhūtāni sumahāntyapi ||
दंशिता विविधैस् त्राणैर् विविधायुधपाणयः ॥ (१३।२)
daṃśitā vividhais trāṇair vividhāyudhapāṇayaḥ ||
आयसैश् च महाशूलैर् गदाभिर् मुसलैर् अपि । (१४।१)
āyasaiś ca mahāśūlair gadābhir musalair api |
पट्टिशैः करवालैश् च रथचक्रैश् च भारत ॥ (१४।२)
paṭṭiśaiḥ karavālaiś ca rathacakraiś ca bhārata ||
शतघ्नीभिर् भुशुण्डीभिः खड्गैश् चित्रैः स्वलंकृतैः । (१५।१)
śataghnībhir bhuśuṇḍībhiḥ khaḍgaiś citraiḥ svalaṃkṛtaiḥ |
प्रगृहीतैर् दितेः पुत्राः प्रादुरासन् सहस्रशः ॥ (१५।२)
pragṛhītair diteḥ putrāḥ prādurāsan sahasraśaḥ ||
ततो विचार्य बहुधा रथमार्गेषु तान् हयान् । (१६।१)
tato vicārya bahudhā rathamārgeṣu tān hayān |
तेन तेषां प्रणुन्नानाम् आशुत्वाच्छीघ्रगामिनाम् । (१७।१)
tena teṣāṃ praṇunnānām āśutvācchīghragāminām |
नान्वपश्यं तदा किंचित् तन् मे ऽद्भुतम् इवाभवत् ॥ (१७।२)
nānvapaśyaṃ tadā kiṃcit tan me 'dbhutam ivābhavat ||
ततस् ते दानवास् तत्र योधव्रातान्यनेकशः । (१८।१)
tatas te dānavās tatra yodhavrātānyanekaśaḥ |
आप्लवन्त गतैः सत्त्वैर् मत्स्याः शतसहस्रशः ॥ (१९।२)
āplavanta gataiḥ sattvair matsyāḥ śatasahasraśaḥ ||
विमुञ्चन्तः शितान् बाणाञ् शतशो ऽथ सहस्रशः ॥ (२०।२)
vimuñcantaḥ śitān bāṇāñ śataśo 'tha sahasraśaḥ ||
स सम्प्रहारस् तुमुलस् तेषां मम च भारत । (२१।१)
sa samprahāras tumulas teṣāṃ mama ca bhārata |
ब्रह्मर्षयश्च सिद्धाश्च समाजग्मुर् महामृधे ॥ (२२।२)
brahmarṣayaśca siddhāśca samājagmur mahāmṛdhe ||
ते वै माम् अनुरूपाभिर् मधुराभिर् जयैषिणः । (२३।१)
te vai mām anurūpābhir madhurābhir jayaiṣiṇaḥ |
अस्तुवन् मुनयो वाग्भिर् यथेन्द्रं तारकामये ॥ (२३।२)
astuvan munayo vāgbhir yathendraṃ tārakāmaye ||
Data courtesy of The Digital Corpus of Sanskrit.