महाभारतMahābhārata

MBh, 13, 119

1800 of 1995 · 49 verses

Select a line for its word-by-word analysis.

1.1१.१

व्यास उवाच । (१।१)

vyāsa uvāca

1.2१.२

शुभेन कर्मणा यद् वै तिर्यग्योनौ न मुह्यसे । (१।२)

śubhena karmaṇā yad vai tiryagyonau na muhyase |

1.3१.३

ममैव कीट तत् कर्म येन त्वं न प्रमुह्यसे ॥ (१।३)

mamaiva kīṭa tat karma yena tvaṃ na pramuhyase ||

2.1२.१

अहं हि दर्शनाद् एव तारयामि तपोबलात् । (२।१)

ahaṃ hi darśanād eva tārayāmi tapobalāt |

2.2२.२

तपोबलाद्धि बलवद् बलम् अन्यन्न विद्यते ॥ (२।२)

tapobalāddhi balavad balam anyanna vidyate ||

3.1३.१

जानामि पापैः स्वकृतैर् गतं त्वां कीट कीटताम् । (३।१)

jānāmi pāpaiḥ svakṛtair gataṃ tvāṃ kīṭa kīṭatām |

3.2३.२

अवाप्स्यसि परं धर्मं धर्मस्थो यदि मन्यसे ॥ (३।२)

avāpsyasi paraṃ dharmaṃ dharmastho yadi manyase ||

4.1४.१

कर्म भूमिकृतं देवा भुञ्जते तिर्यगाश्च ये । (४।१)

karma bhūmikṛtaṃ devā bhuñjate tiryagāśca ye |

4.2४.२

धर्माद् अपि मनुष्येषु कामो ऽर्थश्च यथा गुणैः ॥ (४।२)

dharmād api manuṣyeṣu kāmo 'rthaśca yathā guṇaiḥ ||

5.1५.१

वाग्बुद्धिपाणिपादैश्चाप्युपेतस्य विपश्चितः । (५।१)

vāgbuddhipāṇipādaiścāpyupetasya vipaścitaḥ |

5.2५.२

किं हीयते मनुष्यस्य मन्दस्यापि हि जीवतः ॥ (५।२)

kiṃ hīyate manuṣyasya mandasyāpi hi jīvataḥ ||

6.1६.१

जीवन् हि कुरुते पूजां विप्राग्र्यः शशिसूर्ययोः । (६।१)

jīvan hi kurute pūjāṃ viprāgryaḥ śaśisūryayoḥ |

6.2६.२

ब्रुवन्न् अपि कथां पुण्यां तत्र कीट त्वम् एष्यसि ॥ (६।२)

bruvann api kathāṃ puṇyāṃ tatra kīṭa tvam eṣyasi ||

7.1७.१

गुणभूतानि भूतानि तत्र त्वम् उपभोक्ष्यसे । (७।१)

guṇabhūtāni bhūtāni tatra tvam upabhokṣyase |

7.2७.२

तत्र ते ऽहं विनेष्यामि ब्रह्मत्वं यत्र चेच्छसि ॥ (७।२)

tatra te 'haṃ vineṣyāmi brahmatvaṃ yatra cecchasi ||

8.1८.१

स तथेति प्रतिश्रुत्य कीटो वर्त्मन्यतिष्ठत । (८।१)

sa tatheti pratiśrutya kīṭo vartmanyatiṣṭhata |

8.2८.२

तम् ऋषिं द्रष्टुम् अगमत् सर्वास्वन्यासु योनिषु ॥ (८।२)

tam ṛṣiṃ draṣṭum agamat sarvāsvanyāsu yoniṣu ||

9.1९.१

श्वाविद्गोधावराहाणां तथैव मृगपक्षिणाम् । (९।१)

śvāvidgodhāvarāhāṇāṃ tathaiva mṛgapakṣiṇām |

9.2९.२

श्वपाकवैश्यशूद्राणां क्षत्रियाणां च योनिषु ॥ (९।२)

śvapākavaiśyaśūdrāṇāṃ kṣatriyāṇāṃ ca yoniṣu ||

10.1१०.१

स कीटेत्येवम् आभाष्य ऋषिणा सत्यवादिना । (१०।१)

sa kīṭetyevam ābhāṣya ṛṣiṇā satyavādinā |

10.2१०.२

प्रतिस्मृत्याथ जग्राह पादौ मूर्ध्ना कृताञ्जलिः ॥ (१०।२)

pratismṛtyātha jagrāha pādau mūrdhnā kṛtāñjaliḥ ||

11.1११.१

कीट उवाच । (११।१)

kīṭa uvāca

11.2११.२

इदं तद् अतुलं स्थानम् ईप्सितं दशभिर् गुणैः । (११।२)

idaṃ tad atulaṃ sthānam īpsitaṃ daśabhir guṇaiḥ |

11.3११.३

यद् अहं प्राप्य कीटत्वम् आगतो राजपुत्रताम् ॥ (११।३)

yad ahaṃ prāpya kīṭatvam āgato rājaputratām ||

12.1१२.१

वहन्ति माम् अतिबलाः कुञ्जरा हेममालिनः । (१२।१)

vahanti mām atibalāḥ kuñjarā hemamālinaḥ |

12.2१२.२

स्यन्दनेषु च काम्बोजा युक्ताः परमवाजिनः ॥ (१२।२)

syandaneṣu ca kāmbojā yuktāḥ paramavājinaḥ ||

13.1१३.१

उष्ट्राश्वतरयुक्तानि यानानि च वहन्ति माम् । (१३।१)

uṣṭrāśvatarayuktāni yānāni ca vahanti mām |

13.2१३.२

सबान्धवः सहामात्यश्चाश्नामि पिशितौदनम् ॥ (१३।२)

sabāndhavaḥ sahāmātyaścāśnāmi piśitaudanam ||

14.1१४.१

गृहेषु सुनिवासेषु सुखेषु शयनेषु च । (१४।१)

gṛheṣu sunivāseṣu sukheṣu śayaneṣu ca |

14.2१४.२

परार्ध्येषु महाभाग स्वपामीह सुपूजितः ॥ (१४।२)

parārdhyeṣu mahābhāga svapāmīha supūjitaḥ ||

15.1१५.१

सर्वेष्वपररात्रेषु सूतमागधबन्दिनः । (१५।१)

sarveṣvapararātreṣu sūtamāgadhabandinaḥ |

15.2१५.२

स्तुवन्ति मां यथा देवं महेन्द्रं प्रियवादिनः ॥ (१५।२)

stuvanti māṃ yathā devaṃ mahendraṃ priyavādinaḥ ||

16.1१६.१

प्रसादात् सत्यसंधस्य भवतो ऽमिततेजसः । (१६।१)

prasādāt satyasaṃdhasya bhavato 'mitatejasaḥ |

16.2१६.२

यद् अहं कीटतां प्राप्य सम्प्राप्तो राजपुत्रताम् ॥ (१६।२)

yad ahaṃ kīṭatāṃ prāpya samprāpto rājaputratām ||

17.1१७.१

नमस्ते ऽस्तु महाप्राज्ञ किं करोमि प्रशाधि माम् । (१७।१)

namaste 'stu mahāprājña kiṃ karomi praśādhi mām |

17.2१७.२

त्वत्तपोबलनिर्दिष्टम् इदं ह्यधिगतं मया ॥ (१७।२)

tvattapobalanirdiṣṭam idaṃ hyadhigataṃ mayā ||

18.1१८.१

व्यास उवाच । (१८।१)

vyāsa uvāca

18.2१८.२

अर्चितो ऽहं त्वया राजन् वाग्भिर् अद्य यदृच्छया । (१८।२)

arcito 'haṃ tvayā rājan vāgbhir adya yadṛcchayā |

18.3१८.३

अद्य ते कीटतां प्राप्य स्मृतिर् जाताजुगुप्सिता ॥ (१८।३)

adya te kīṭatāṃ prāpya smṛtir jātājugupsitā ||

19.1१९.१

न तु नाशो ऽस्ति पापस्य यत् त्वयोपचितं पुरा । (१९।१)

na tu nāśo 'sti pāpasya yat tvayopacitaṃ purā |

19.2१९.२

शूद्रेणार्थप्रधानेन नृशंसेनाततायिना ॥ (१९।२)

śūdreṇārthapradhānena nṛśaṃsenātatāyinā ||

20.1२०.१

मम ते दर्शनं प्राप्तं तच्चैव सुकृतं पुरा । (२०।१)

mama te darśanaṃ prāptaṃ taccaiva sukṛtaṃ purā |

20.2२०.२

तिर्यग्योनौ स्म जातेन मम चाप्यर्चनात् तथा ॥ (२०।२)

tiryagyonau sma jātena mama cāpyarcanāt tathā ||

21.1२१.१

इतस्त्वं राजपुत्रत्वाद् ब्राह्मण्यं समवाप्स्यसि । (२१।१)

itastvaṃ rājaputratvād brāhmaṇyaṃ samavāpsyasi |

21.2२१.२

गोब्राह्मणकृते प्राणान् हुत्वात्मीयान् रणाजिरे ॥ (२१।२)

gobrāhmaṇakṛte prāṇān hutvātmīyān raṇājire ||

22.1२२.१

राजपुत्रसुखं प्राप्य ऋतूंश्चैवाप्तदक्षिणान् । (२२।१)

rājaputrasukhaṃ prāpya ṛtūṃścaivāptadakṣiṇān |

22.2२२.२

अथ मोदिष्यसे स्वर्गे ब्रह्मभूतो ऽव्ययः सुखी ॥ (२२।२)

atha modiṣyase svarge brahmabhūto 'vyayaḥ sukhī ||

23.1२३.१

तिर्यग्योन्याः शूद्रताम् अभ्युपैति शूद्रो वैश्यत्वं क्षत्रियत्वं च वैश्यः । (२३।१)

tiryagyonyāḥ śūdratām abhyupaiti śūdro vaiśyatvaṃ kṣatriyatvaṃ ca vaiśyaḥ |

23.2२३.२

वृत्तश्लाघी क्षत्रियो ब्राह्मणत्वं स्वर्गं पुण्यं ब्राह्मणः साधुवृत्तः ॥ (२३।२)

vṛttaślāghī kṣatriyo brāhmaṇatvaṃ svargaṃ puṇyaṃ brāhmaṇaḥ sādhuvṛttaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 13, 119

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit