MBh, 8, 58
Select a line for its word-by-word analysis.
राजन् कुरूणां प्रवरैर् बलैर् भीमम् अभिद्रुतम् । (१।२)
rājan kurūṇāṃ pravarair balair bhīmam abhidrutam |
मज्जन्तम् इव कौन्तेयम् उज्जिहीर्षुर् धनंजयः ॥ (१।३)
majjantam iva kaunteyam ujjihīrṣur dhanaṃjayaḥ ||
अदृश्यन्त तथान्ये च निघ्नन्तस् तव वाहिनीम् ॥ (३।२)
adṛśyanta tathānye ca nighnantas tava vāhinīm ||
ततो भल्लैः क्षुरप्रैश् च नाराचैर् निर्मलैर् अपि । (५।१)
tato bhallaiḥ kṣurapraiś ca nārācair nirmalair api |
गात्राणि प्राक्षिणोत् पार्थः शिरांसि च चकर्त ह ॥ (५।२)
gātrāṇi prākṣiṇot pārthaḥ śirāṃsi ca cakarta ha ||
छिन्नगात्रैर् विकवचैर् विशिरस्कैः समन्ततः । (६।१)
chinnagātrair vikavacair viśiraskaiḥ samantataḥ |
पतितैश् च पतद्भिश् च योधैर् आसीत् समावृतम् ॥ (६।२)
patitaiś ca patadbhiś ca yodhair āsīt samāvṛtam ||
ईषाचक्राक्षभङ्गैश् च व्यश्वैः साश्वैश् च युध्यताम् । (८।१)
īṣācakrākṣabhaṅgaiś ca vyaśvaiḥ sāśvaiś ca yudhyatām |
ससूतैर् हतसूतैश् च रथैः स्तीर्णाभवन् मही ॥ (८।२)
sasūtair hatasūtaiś ca rathaiḥ stīrṇābhavan mahī ||
आस्थिताः कृतवर्माणो भद्रा नित्यमदा द्विपाः । (९।२)
āsthitāḥ kṛtavarmāṇo bhadrā nityamadā dvipāḥ |
क्रुद्धाः क्रुद्धैर् महामात्रैः प्रेषितार्जुनम् अभ्ययुः ॥ (९।३)
kruddhāḥ kruddhair mahāmātraiḥ preṣitārjunam abhyayuḥ ||
चतुःशताः शरवर्षैर् हताः पेतुः किरीटिना । (१०।१)
catuḥśatāḥ śaravarṣair hatāḥ petuḥ kirīṭinā |
पर्यस्तानीव शृङ्गाणि ससत्त्वानि महागिरेः ॥ (१०।२)
paryastānīva śṛṅgāṇi sasattvāni mahāgireḥ ||
धनंजयशराभ्यस्तैः स्तीर्णा भूर् वरवारणैः । (११।१)
dhanaṃjayaśarābhyastaiḥ stīrṇā bhūr varavāraṇaiḥ |
अभिपेदे ऽर्जुनरथो घनान् भिन्दन्न् इवांशुमान् ॥ (११।२)
abhipede 'rjunaratho ghanān bhindann ivāṃśumān ||
हतैर् गजमनुष्याश्वैर् भग्नैश् च बहुधा रथैः । (१२।१)
hatair gajamanuṣyāśvair bhagnaiś ca bahudhā rathaiḥ |
विशस्त्रपत्रकवचैर् युद्धशौण्डैर् गतासुभिः । (१२।२)
viśastrapatrakavacair yuddhaśauṇḍair gatāsubhiḥ |
अपविद्धायुधैर् मार्गः स्तीर्णो ऽभूत् फल्गुनेन वै ॥ (१२।३)
apaviddhāyudhair mārgaḥ stīrṇo 'bhūt phalgunena vai ||
व्यस्फूर्जयच् च गाण्डीवं सुमहद् भैरवस्वनम् । (१३।१)
vyasphūrjayac ca gāṇḍīvaṃ sumahad bhairavasvanam |
घोरो वज्रविनिष्पेषः स्तनयित्नोर् इवाम्बरे ॥ (१३।२)
ghoro vajraviniṣpeṣaḥ stanayitnor ivāmbare ||
अलातोल्काशनिप्रख्यास् तव सैन्यं विनिर्दहन् ॥ (१५।२)
alātolkāśaniprakhyās tava sainyaṃ vinirdahan ||
तथा तव महत् सैन्यं प्रास्फुरच्छरपीडितम् ॥ (१६।२)
tathā tava mahat sainyaṃ prāsphuraccharapīḍitam ||
सम्पिष्टदग्धविध्वस्तं तव सैन्यं किरीटिना । (१७।१)
sampiṣṭadagdhavidhvastaṃ tava sainyaṃ kirīṭinā |
हतं प्रविहतं बाणैः सर्वतः प्रद्रुतं दिशः ॥ (१७।२)
hataṃ pravihataṃ bāṇaiḥ sarvataḥ pradrutaṃ diśaḥ ||
कुरवः पर्यवर्तन्त निर्दग्धाः सव्यसाचिना ॥ (१८।२)
kuravaḥ paryavartanta nirdagdhāḥ savyasācinā ||
बलं कुरूणाम् उद्विग्नं सर्वम् आसीत् पराङ्मुखम् ॥ (१९।२)
balaṃ kurūṇām udvignaṃ sarvam āsīt parāṅmukham ||
भीमसेनं समासाद्य मुहूर्तं सो ऽभ्यवर्तत ॥ (२०।२)
bhīmasenaṃ samāsādya muhūrtaṃ so 'bhyavartata ||
समागम्य स भीमेन मन्त्रयित्वा च फल्गुनः । (२१।१)
samāgamya sa bhīmena mantrayitvā ca phalgunaḥ |
विशल्यम् अरुजं चास्मै कथयित्वा युधिष्ठिरम् ॥ (२१।२)
viśalyam arujaṃ cāsmai kathayitvā yudhiṣṭhiram ||
भीमसेनाभ्यनुज्ञातस् ततः प्रायाद् धनंजयः । (२२।१)
bhīmasenābhyanujñātas tataḥ prāyād dhanaṃjayaḥ |
नादयन् रथघोषेण पृथिवीं द्यां च भारत ॥ (२२।२)
nādayan rathaghoṣeṇa pṛthivīṃ dyāṃ ca bhārata ||
ततः परिवृतो भीमैर् दशभिः शत्रुपुंगवैः । (२३।१)
tataḥ parivṛto bhīmair daśabhiḥ śatrupuṃgavaiḥ |
दुःशासनाद् अवरजैस् तव पुत्रैर् धनंजयः ॥ (२३।२)
duḥśāsanād avarajais tava putrair dhanaṃjayaḥ ||
ते तम् अभ्यर्दयन् बाणैर् उल्काभिर् इव कुञ्जरम् । (२४।१)
te tam abhyardayan bāṇair ulkābhir iva kuñjaram |
अपसव्यांस् तु तांश् चक्रे रथेन मधुसूदनः । (२५।१)
apasavyāṃs tu tāṃś cakre rathena madhusūdanaḥ |
ततस् ते प्राद्रवञ् शूराः पराङ्मुखरथे ऽर्जुने ॥ (२५।२)
tatas te prādravañ śūrāḥ parāṅmukharathe 'rjune ||
तेषाम् आपततां केतून् रथांश् चापानि सायकान् । (२६।१)
teṣām āpatatāṃ ketūn rathāṃś cāpāni sāyakān |
नाराचैर् अर्धचन्द्रैश् च क्षिप्रं पार्थो न्यपातयत् ॥ (२६।२)
nārācair ardhacandraiś ca kṣipraṃ pārtho nyapātayat ||
अथान्यैर् दशभिर् भल्लैः शिरांस्य् एषां न्यपातयत् । (२७।१)
athānyair daśabhir bhallaiḥ śirāṃsy eṣāṃ nyapātayat |
तानि वक्त्राणि विबभुर् व्योम्नि तारागणा इव ॥ (२७।३)
tāni vaktrāṇi vibabhur vyomni tārāgaṇā iva ||
तांस् तु भल्लैर् महावेगैर् दशभिर् दश कौरवान् । (२८।१)
tāṃs tu bhallair mahāvegair daśabhir daśa kauravān |
रुक्माङ्गदान् रुक्मपुङ्खैर् विद्ध्वा प्रायाद् अमित्रहा ॥ (२८।२)
rukmāṅgadān rukmapuṅkhair viddhvā prāyād amitrahā ||
Data courtesy of The Digital Corpus of Sanskrit.