महाभारतMahābhārata

MBh, 3, 170

468 of 1995 · 153 verses

Select a line for its word-by-word analysis.

1.1१.१

अर्जुन उवाच । (१।१)

arjuna uvāca

1.2१.२

निवर्तमानेन मया महद् दृष्टं ततो ऽपरम् । (१।२)

nivartamānena mayā mahad dṛṣṭaṃ tato 'param |

1.3१.३

पुरं कामचरं दिव्यं पावकार्कसमप्रभम् ॥ (१।३)

puraṃ kāmacaraṃ divyaṃ pāvakārkasamaprabham ||

2.1२.१

द्रुमै रत्नमयैश्चैत्रैर् भास्वरैश् च पतत्रिभिः । (२।१)

drumai ratnamayaiścaitrair bhāsvaraiś ca patatribhiḥ |

2.2२.२

पौलोमैः कालकेयैश् च नित्यहृष्टैर् अधिष्ठितम् ॥ (२।२)

paulomaiḥ kālakeyaiś ca nityahṛṣṭair adhiṣṭhitam ||

3.1३.१

गोपुराट्टालकोपेतं चतुर्द्वारं दुरासदम् । (३।१)

gopurāṭṭālakopetaṃ caturdvāraṃ durāsadam |

3.2३.२

सर्वरत्नमयं दिव्यम् अद्भुतोपमदर्शनम् । (३।२)

sarvaratnamayaṃ divyam adbhutopamadarśanam |

3.3३.३

द्रुमैः पुष्पफलोपेतैर् दिव्यरत्नमयैर् वृतम् ॥ (३।३)

drumaiḥ puṣpaphalopetair divyaratnamayair vṛtam ||

4.1४.१

तथा पतत्रिभिर् दिव्यैर् उपेतं सुमनोहरैः । (४।१)

tathā patatribhir divyair upetaṃ sumanoharaiḥ |

4.2४.२

असुरैर् नित्यमुदितैः शूलर्ष्टिमुसलायुधैः । (४।२)

asurair nityamuditaiḥ śūlarṣṭimusalāyudhaiḥ |

4.3४.३

चापमुद्गरहस्तैश् च स्रग्विभिः सर्वतो वृतम् ॥ (४।३)

cāpamudgarahastaiś ca sragvibhiḥ sarvato vṛtam ||

5.1५.१

तद् अहं प्रेक्ष्य दैत्यानां पुरम् अद्भुतदर्शनम् । (५।१)

tad ahaṃ prekṣya daityānāṃ puram adbhutadarśanam |

5.2५.२

अपृच्छं मातलिं राजन् किम् इदं दृश्यतेति वै ॥ (५।२)

apṛcchaṃ mātaliṃ rājan kim idaṃ dṛśyateti vai ||

6.1६.१

मातलिर् उवाच । (६।१)

mātalir uvāca

6.2६.२

पुलोमा नाम दैतेयी कालका च महासुरी । (६।२)

pulomā nāma daiteyī kālakā ca mahāsurī |

6.3६.३

दिव्यं वर्षसहस्रं ते चेरतुः परमं तपः । (६।३)

divyaṃ varṣasahasraṃ te ceratuḥ paramaṃ tapaḥ |

6.4६.४

तपसो ऽन्ते ततस् ताभ्यां स्वयम्भूर् अददाद् वरम् ॥ (६।४)

tapaso 'nte tatas tābhyāṃ svayambhūr adadād varam ||

7.1७.१

अगृह्णीतां वरं ते तु सुतानाम् अल्पदुःखताम् । (७।१)

agṛhṇītāṃ varaṃ te tu sutānām alpaduḥkhatām |

7.2७.२

अवध्यतां च राजेन्द्र सुरराक्षसपन्नगैः ॥ (७।२)

avadhyatāṃ ca rājendra surarākṣasapannagaiḥ ||

8.1८.१

रमणीयं पुरं चेदं खचरं सुकृतप्रभम् । (८।१)

ramaṇīyaṃ puraṃ cedaṃ khacaraṃ sukṛtaprabham |

8.2८.२

सर्वरत्नैः समुदितं दुर्धर्षम् अमरैर् अपि । (८।२)

sarvaratnaiḥ samuditaṃ durdharṣam amarair api |

8.3८.३

सयक्षगन्धर्वगणैः पन्नगासुरराक्षसैः ॥ (८।३)

sayakṣagandharvagaṇaiḥ pannagāsurarākṣasaiḥ ||

9.1९.१

सर्वकामगुणोपेतं वीतशोकम् अनामयम् । (९।१)

sarvakāmaguṇopetaṃ vītaśokam anāmayam |

9.2९.२

ब्रह्मणा भरतश्रेष्ठ कालकेयकृते कृतम् ॥ (९।२)

brahmaṇā bharataśreṣṭha kālakeyakṛte kṛtam ||

10.1१०.१

तद् एतत् खचरं दिव्यं चरत्यमरवर्जितम् । (१०।१)

tad etat khacaraṃ divyaṃ caratyamaravarjitam |

10.2१०.२

पौलोमाध्युषितं वीर कालकेयैश् च दानवैः ॥ (१०।२)

paulomādhyuṣitaṃ vīra kālakeyaiś ca dānavaiḥ ||

11.1११.१

हिरण्यपुरम् इत्येतत् ख्यायते नगरं महत् । (११।१)

hiraṇyapuram ityetat khyāyate nagaraṃ mahat |

11.2११.२

रक्षितं कालकेयैश् च पौलोमैश् च महासुरैः ॥ (११।२)

rakṣitaṃ kālakeyaiś ca paulomaiś ca mahāsuraiḥ ||

12.1१२.१

त एते मुदिता नित्यम् अवध्याः सर्वदैवतैः । (१२।१)

ta ete muditā nityam avadhyāḥ sarvadaivataiḥ |

12.2१२.२

निवसन्त्यत्र राजेन्द्र गतोद्वेगा निरुत्सुकाः । (१२।२)

nivasantyatra rājendra gatodvegā nirutsukāḥ |

12.3१२.३

मानुषो मृत्युर् एतेषां निर्दिष्टो ब्रह्मणा पुरा ॥ (१२।३)

mānuṣo mṛtyur eteṣāṃ nirdiṣṭo brahmaṇā purā ||

13.1१३.१

अर्जुन उवाच । (१३।१)

arjuna uvāca

13.2१३.२

सुरासुरैर् अवध्यांस् तान् अहं ज्ञात्वा ततः प्रभो । (१३।२)

surāsurair avadhyāṃs tān ahaṃ jñātvā tataḥ prabho |

13.3१३.३

अब्रुवं मातलिं हृष्टो याह्येतत् पुरम् अञ्जसा ॥ (१३।३)

abruvaṃ mātaliṃ hṛṣṭo yāhyetat puram añjasā ||

14.1१४.१

त्रिदशेशद्विषो यावत् क्षयम् अस्त्रैर् नयाम्यहम् । (१४।१)

tridaśeśadviṣo yāvat kṣayam astrair nayāmyaham |

14.2१४.२

न कथंचिद्धि मे पापा न वध्या ये सुरद्विषः ॥ (१४।२)

na kathaṃciddhi me pāpā na vadhyā ye suradviṣaḥ ||

15.1१५.१

उवाह मां ततः शीघ्रं हिरण्यपुरम् अन्तिकात् । (१५।१)

uvāha māṃ tataḥ śīghraṃ hiraṇyapuram antikāt |

15.2१५.२

रथेन तेन दिव्येन हरियुक्तेन मातलिः ॥ (१५।२)

rathena tena divyena hariyuktena mātaliḥ ||

16.1१६.१

ते माम् आलक्ष्य दैतेया विचित्राभरणाम्बराः । (१६।१)

te mām ālakṣya daiteyā vicitrābharaṇāmbarāḥ |

16.2१६.२

समुत्पेतुर् महावेगा रथान् आस्थाय दंशिताः ॥ (१६।२)

samutpetur mahāvegā rathān āsthāya daṃśitāḥ ||

17.1१७.१

ततो नालीकनाराचैर् भल्लशक्त्यृष्टितोमरैः । (१७।१)

tato nālīkanārācair bhallaśaktyṛṣṭitomaraiḥ |

17.2१७.२

अभ्यघ्नन् दानवेन्द्रा मां क्रुद्धास् तीव्रपराक्रमाः ॥ (१७।२)

abhyaghnan dānavendrā māṃ kruddhās tīvraparākramāḥ ||

18.1१८.१

तद् अहं चास्त्रवर्षेण महता प्रत्यवारयम् । (१८।१)

tad ahaṃ cāstravarṣeṇa mahatā pratyavārayam |

18.2१८.२

शस्त्रवर्षं महद् राजन् विद्याबलम् उपाश्रितः ॥ (१८।२)

śastravarṣaṃ mahad rājan vidyābalam upāśritaḥ ||

19.1१९.१

व्यामोहयं च तान् सर्वान् रथमार्गैश् चरन् रणे । (१९।१)

vyāmohayaṃ ca tān sarvān rathamārgaiś caran raṇe |

19.2१९.२

ते ऽन्योन्यम् अभिसंमूढाः पातयन्ति स्म दानवाः ॥ (१९।२)

te 'nyonyam abhisaṃmūḍhāḥ pātayanti sma dānavāḥ ||

20.1२०.१

तेषाम् अहं विमूढानाम् अन्योन्यम् अभिधावताम् । (२०।१)

teṣām ahaṃ vimūḍhānām anyonyam abhidhāvatām |

20.2२०.२

शिरांसि विशिखैर् दीप्तैर् व्यहरं शतसंघशः ॥ (२०।२)

śirāṃsi viśikhair dīptair vyaharaṃ śatasaṃghaśaḥ ||

21.1२१.१

ते वध्यमाना दैतेयाः पुरम् आस्थाय तत् पुनः । (२१।१)

te vadhyamānā daiteyāḥ puram āsthāya tat punaḥ |

21.2२१.२

खम् उत्पेतुः सनगरा मायाम् आस्थाय दानवीम् ॥ (२१।२)

kham utpetuḥ sanagarā māyām āsthāya dānavīm ||

22.1२२.१

ततो ऽहं शरवर्षेण महता प्रत्यवारयम् । (२२।१)

tato 'haṃ śaravarṣeṇa mahatā pratyavārayam |

22.2२२.२

मार्गम् आवृत्य दैत्यानां गतिं चैषाम् अवारयम् ॥ (२२।२)

mārgam āvṛtya daityānāṃ gatiṃ caiṣām avārayam ||

23.1२३.१

तत् पुरं खचरं दिव्यं कामगं दिव्यवर्चसम् । (२३।१)

tat puraṃ khacaraṃ divyaṃ kāmagaṃ divyavarcasam |

23.2२३.२

दैतेयैर् वरदानेन धार्यते स्म यथासुखम् ॥ (२३।२)

daiteyair varadānena dhāryate sma yathāsukham ||

24.1२४.१

अन्तर्भूमौ निपतितं पुनर् ऊर्ध्वं प्रतिष्ठते । (२४।१)

antarbhūmau nipatitaṃ punar ūrdhvaṃ pratiṣṭhate |

24.2२४.२

पुनस् तिर्यक् प्रयात्याशु पुनर् अप्सु निमज्जति ॥ (२४।२)

punas tiryak prayātyāśu punar apsu nimajjati ||

25.1२५.१

अमरावतिसंकाशं पुरं कामगमं तु तत् । (२५।१)

amarāvatisaṃkāśaṃ puraṃ kāmagamaṃ tu tat |

25.2२५.२

अहम् अस्त्रैर् बहुविधैः प्रत्यगृह्णं नराधिप ॥ (२५।२)

aham astrair bahuvidhaiḥ pratyagṛhṇaṃ narādhipa ||

26.1२६.१

ततो ऽहं शरजालेन दिव्यास्त्रमुदितेन च । (२६।१)

tato 'haṃ śarajālena divyāstramuditena ca |

26.2२६.२

न्यगृह्णं सह दैतेयैस् तत् पुरं भरतर्षभ ॥ (२६।२)

nyagṛhṇaṃ saha daiteyais tat puraṃ bharatarṣabha ||

27.1२७.१

विक्षतं चायसैर् बाणैर् मत्प्रयुक्तैर् अजिह्मगैः । (२७।१)

vikṣataṃ cāyasair bāṇair matprayuktair ajihmagaiḥ |

27.2२७.२

महीम् अभ्यपतद् राजन् प्रभग्नं पुरम् आसुरम् ॥ (२७।२)

mahīm abhyapatad rājan prabhagnaṃ puram āsuram ||

28.1२८.१

ते वध्यमाना मद्बाणैर् वज्रवेगैर् अयस्मयैः । (२८।१)

te vadhyamānā madbāṇair vajravegair ayasmayaiḥ |

28.2२८.२

पर्यभ्रमन्त वै राजन्न् असुराः कालचोदिताः ॥ (२८।२)

paryabhramanta vai rājann asurāḥ kālacoditāḥ ||

29.1२९.१

ततो मातलिर् अप्याशु पुरस्तान् निपतन्न् इव । (२९।१)

tato mātalir apyāśu purastān nipatann iva |

29.2२९.२

महीम् अवातरत् क्षिप्रं रथेनादित्यवर्चसा ॥ (२९।२)

mahīm avātarat kṣipraṃ rathenādityavarcasā ||

30.1३०.१

ततो रथसहस्राणि षष्टिस् तेषाम् अमर्षिणाम् । (३०।१)

tato rathasahasrāṇi ṣaṣṭis teṣām amarṣiṇām |

30.2३०.२

युयुत्सूनां मया सार्धं पर्यवर्तन्त भारत ॥ (३०।२)

yuyutsūnāṃ mayā sārdhaṃ paryavartanta bhārata ||

31.1३१.१

तान् अहं निशितैर् बाणैर् व्यधमं गार्ध्रवाजितैः । (३१।१)

tān ahaṃ niśitair bāṇair vyadhamaṃ gārdhravājitaiḥ |

31.2३१.२

ते युद्धे संन्यवर्तन्त समुद्रस्य यथोर्मयः ॥ (३१।२)

te yuddhe saṃnyavartanta samudrasya yathormayaḥ ||

32.1३२.१

नेमे शक्या मानुषेण युद्धेनेति प्रचिन्त्य वै । (३२।१)

neme śakyā mānuṣeṇa yuddheneti pracintya vai |

32.2३२.२

ततो ऽहम् आनुपूर्व्येण सर्वाण्यस्त्राण्ययोजयम् ॥ (३२।२)

tato 'ham ānupūrvyeṇa sarvāṇyastrāṇyayojayam ||

33.1३३.१

ततस् तानि सहस्राणि रथानां चित्रयोधिनाम् । (३३।१)

tatas tāni sahasrāṇi rathānāṃ citrayodhinām |

33.2३३.२

अस्त्राणि मम दिव्यानि प्रत्यघ्नञ्शनकैर् इव ॥ (३३।२)

astrāṇi mama divyāni pratyaghnañśanakair iva ||

34.1३४.१

रथमार्गान् विचित्रांस् ते विचरन्तो महारथाः । (३४।१)

rathamārgān vicitrāṃs te vicaranto mahārathāḥ |

34.2३४.२

प्रत्यदृश्यन्त संग्रामे शतशो ऽथ सहस्रशः ॥ (३४।२)

pratyadṛśyanta saṃgrāme śataśo 'tha sahasraśaḥ ||

35.1३५.१

विचित्रमुकुटापीडा विचित्रकवचध्वजाः । (३५।१)

vicitramukuṭāpīḍā vicitrakavacadhvajāḥ |

35.2३५.२

विचित्राभरणाश्चैव नन्दयन्तीव मे मनः ॥ (३५।२)

vicitrābharaṇāścaiva nandayantīva me manaḥ ||

36.1३६.१

अहं तु शरवर्षैस् तान् अस्त्रप्रमुदितै रणे । (३६।१)

ahaṃ tu śaravarṣais tān astrapramuditai raṇe |

36.2३६.२

नाशक्नुवं पीडयितुं ते तु मां पर्यपीडयन् ॥ (३६।२)

nāśaknuvaṃ pīḍayituṃ te tu māṃ paryapīḍayan ||

37.1३७.१

तैः पीड्यमानो बहुभिः कृतास्त्रैः कुशलैर् युधि । (३७।१)

taiḥ pīḍyamāno bahubhiḥ kṛtāstraiḥ kuśalair yudhi |

37.2३७.२

व्यथितो ऽस्मि महायुद्धे भयं चागान् महन् मम ॥ (३७।२)

vyathito 'smi mahāyuddhe bhayaṃ cāgān mahan mama ||

38.1३८.१

ततो ऽहं देवदेवाय रुद्राय प्रणतो रणे । (३८।१)

tato 'haṃ devadevāya rudrāya praṇato raṇe |

38.2३८.२

स्वस्ति भूतेभ्य इत्युक्त्वा महास्त्रं समयोजयम् । (३८।२)

svasti bhūtebhya ityuktvā mahāstraṃ samayojayam |

38.3३८.३

यत् तद् रौद्रम् इति ख्यातं सर्वामित्रविनाशनम् ॥ (३८।३)

yat tad raudram iti khyātaṃ sarvāmitravināśanam ||

39.1३९.१

ततो ऽपश्यं त्रिशिरसं पुरुषं नवलोचनम् । (३९।१)

tato 'paśyaṃ triśirasaṃ puruṣaṃ navalocanam |

39.2३९.२

त्रिमुखं षड्भुजं दीप्तम् अर्कज्वलनमूर्धजम् । (३९।२)

trimukhaṃ ṣaḍbhujaṃ dīptam arkajvalanamūrdhajam |

39.3३९.३

लेलिहानैर् महानागैः कृतशीर्षम् अमित्रहन् ॥ (३९।३)

lelihānair mahānāgaiḥ kṛtaśīrṣam amitrahan ||

40.1४०.१

विभीस् ततस् तद् अस्त्रं तु घोरं रौद्रं सनातनम् । (४०।१)

vibhīs tatas tad astraṃ tu ghoraṃ raudraṃ sanātanam |

40.2४०.२

दृष्ट्वा गाण्डीवसंयोगम् आनीय भरतर्षभ ॥ (४०।२)

dṛṣṭvā gāṇḍīvasaṃyogam ānīya bharatarṣabha ||

41.1४१.१

नमस्कृत्वा त्रिनेत्राय शर्वायामिततेजसे । (४१।१)

namaskṛtvā trinetrāya śarvāyāmitatejase |

41.2४१.२

मुक्तवान् दानवेन्द्राणां पराभावाय भारत ॥ (४१।२)

muktavān dānavendrāṇāṃ parābhāvāya bhārata ||

42.1४२.१

मुक्तमात्रे ततस् तस्मिन् रूपाण्यासन् सहस्रशः । (४२।१)

muktamātre tatas tasmin rūpāṇyāsan sahasraśaḥ |

42.2४२.२

मृगाणाम् अथ सिंहानां व्याघ्राणां च विशां पते । (४२।२)

mṛgāṇām atha siṃhānāṃ vyāghrāṇāṃ ca viśāṃ pate |

42.3४२.३

ऋक्षाणां महिषाणां च पन्नगानां तथा गवाम् ॥ (४२।३)

ṛkṣāṇāṃ mahiṣāṇāṃ ca pannagānāṃ tathā gavām ||

43.1४३.१

गजानां सृमराणां च शरभाणां च सर्वशः । (४३।१)

gajānāṃ sṛmarāṇāṃ ca śarabhāṇāṃ ca sarvaśaḥ |

43.2४३.२

ऋषभाणां वराहाणां मार्जाराणां तथैव च । (४३।२)

ṛṣabhāṇāṃ varāhāṇāṃ mārjārāṇāṃ tathaiva ca |

43.3४३.३

शालावृकाणां प्रेतानां भुरुण्डानां च सर्वशः ॥ (४३।३)

śālāvṛkāṇāṃ pretānāṃ bhuruṇḍānāṃ ca sarvaśaḥ ||

44.1४४.१

गृध्राणां गरुडानां च मकराणां तथैव च । (४४।१)

gṛdhrāṇāṃ garuḍānāṃ ca makarāṇāṃ tathaiva ca |

44.2४४.२

पिशाचानां सयक्षाणां तथैव च सुरद्विषाम् ॥ (४४।२)

piśācānāṃ sayakṣāṇāṃ tathaiva ca suradviṣām ||

45.1४५.१

गुह्यकानां च संग्रामे नैरृतानां तथैव च । (४५।१)

guhyakānāṃ ca saṃgrāme nairṛtānāṃ tathaiva ca |

45.2४५.२

झषाणां गजवक्त्राणाम् उलूकानां तथैव च ॥ (४५।२)

jhaṣāṇāṃ gajavaktrāṇām ulūkānāṃ tathaiva ca ||

46.1४६.१

मीनकूर्मसमूहानां नानाशस्त्रासिपाणिनाम् । (४६।१)

mīnakūrmasamūhānāṃ nānāśastrāsipāṇinām |

46.2४६.२

तथैव यातुधानानां गदामुद्गरधारिणाम् ॥ (४६।२)

tathaiva yātudhānānāṃ gadāmudgaradhāriṇām ||

47.1४७.१

एतैश्चान्यैश्च बहुभिर् नानारूपधरैस् तथा । (४७।१)

etaiścānyaiśca bahubhir nānārūpadharais tathā |

47.2४७.२

सर्वम् आसीज्जगद् व्याप्तं तस्मिन्न् अस्त्रे विसर्जिते ॥ (४७।२)

sarvam āsījjagad vyāptaṃ tasminn astre visarjite ||

48.1४८.१

त्रिषिरोभिश् चतुर्दंष्ट्रैश् चतुरास्यैश् चतुर्भुजैः । (४८।१)

triṣirobhiś caturdaṃṣṭraiś caturāsyaiś caturbhujaiḥ |

48.2४८.२

अनेकरूपसंयुक्तैर् मांसमेदोवसाशिभिः । (४८।२)

anekarūpasaṃyuktair māṃsamedovasāśibhiḥ |

48.3४८.३

अभीक्ष्णं वध्यमानास् ते दानवा ये समागताः ॥ (४८।३)

abhīkṣṇaṃ vadhyamānās te dānavā ye samāgatāḥ ||

49.1४९.१

अर्कज्वलनतेजोभिर् वज्राशनिसमप्रभैः । (४९।१)

arkajvalanatejobhir vajrāśanisamaprabhaiḥ |

49.2४९.२

अद्रिसारमयैश् चान्यैर् बाणैर् अरिविदारणैः । (४९।२)

adrisāramayaiś cānyair bāṇair arividāraṇaiḥ |

49.3४९.३

न्यहनं दानवान् सर्वान् मुहूर्तेनैव भारत ॥ (४९।३)

nyahanaṃ dānavān sarvān muhūrtenaiva bhārata ||

50.1५०.१

गाण्डीवास्त्रप्रणुन्नांस् तान् गतासून् नभसश् च्युतान् । (५०।१)

gāṇḍīvāstrapraṇunnāṃs tān gatāsūn nabhasaś cyutān |

50.2५०.२

दृष्ट्वाहं प्राणमं भूयस् त्रिपुरघ्नाय वेधसे ॥ (५०।२)

dṛṣṭvāhaṃ prāṇamaṃ bhūyas tripuraghnāya vedhase ||

51.1५१.१

तथा रौद्रास्त्रनिष्पिष्टान् दिव्याभरणभूषितान् । (५१।१)

tathā raudrāstraniṣpiṣṭān divyābharaṇabhūṣitān |

51.2५१.२

निशाम्य परमं हर्षम् अगमद् देवसारथिः ॥ (५१।२)

niśāmya paramaṃ harṣam agamad devasārathiḥ ||

52.1५२.१

तद् असह्यं कृतं कर्म देवैर् अपि दुरासदम् । (५२।१)

tad asahyaṃ kṛtaṃ karma devair api durāsadam |

52.2५२.२

दृष्ट्वा मां पूजयामास मातलिः शक्रसारथिः ॥ (५२।२)

dṛṣṭvā māṃ pūjayāmāsa mātaliḥ śakrasārathiḥ ||

53.1५३.१

उवाच चेदं वचनं प्रीयमाणः कृताञ्जलिः । (५३।१)

uvāca cedaṃ vacanaṃ prīyamāṇaḥ kṛtāñjaliḥ |

53.2५३.२

सुरासुरैर् असह्यं हि कर्म यत् साधितं त्वया । (५३।२)

surāsurair asahyaṃ hi karma yat sādhitaṃ tvayā |

53.3५३.३

न ह्येतत् संयुगे कर्तुम् अपि शक्तः सुरेश्वरः ॥ (५३।३)

na hyetat saṃyuge kartum api śaktaḥ sureśvaraḥ ||

54.1५४.१

सुरासुरैर् अवध्यं हि पुरम् एतत् खगं महत् । (५४।१)

surāsurair avadhyaṃ hi puram etat khagaṃ mahat |

54.2५४.२

त्वया विमथितं वीर स्ववीर्यास्त्रतपोबलात् ॥ (५४।२)

tvayā vimathitaṃ vīra svavīryāstratapobalāt ||

55.1५५.१

विध्वस्ते ऽथ पुरे तस्मिन् दानवेषु हतेषु च । (५५।१)

vidhvaste 'tha pure tasmin dānaveṣu hateṣu ca |

55.2५५.२

विनदन्त्यः स्त्रियः सर्वा निष्पेतुर् नगराद् बहिः ॥ (५५।२)

vinadantyaḥ striyaḥ sarvā niṣpetur nagarād bahiḥ ||

56.1५६.१

प्रकीर्णकेश्यो व्यथिताः कुरर्य इव दुःखिताः । (५६।१)

prakīrṇakeśyo vyathitāḥ kurarya iva duḥkhitāḥ |

56.2५६.२

पेतुः पुत्रान् पितॄन् भ्रातॄञ् शोचमाना महीतले ॥ (५६।२)

petuḥ putrān pitṝn bhrātṝñ śocamānā mahītale ||

57.1५७.१

रुदन्त्यो दीनकण्ठ्यस् ता विनदन्त्यो हतेश्वराः । (५७।१)

rudantyo dīnakaṇṭhyas tā vinadantyo hateśvarāḥ |

57.2५७.२

उरांसि पाणिभिर् घ्नन्त्यः प्रस्रस्तस्रग्विभूषणाः ॥ (५७।२)

urāṃsi pāṇibhir ghnantyaḥ prasrastasragvibhūṣaṇāḥ ||

58.1५८.१

तच्छोकयुक्तम् अश्रीकं दुःखदैन्यसमाहतम् । (५८।१)

tacchokayuktam aśrīkaṃ duḥkhadainyasamāhatam |

58.2५८.२

न बभौ दानवपुरं हतत्विट्कं हतेश्वरम् ॥ (५८।२)

na babhau dānavapuraṃ hatatviṭkaṃ hateśvaram ||

59.1५९.१

गन्धर्वनगराकारं हतनागम् इव ह्रदम् । (५९।१)

gandharvanagarākāraṃ hatanāgam iva hradam |

59.2५९.२

शुष्कवृक्षम् इवारण्यम् अदृश्यम् अभवत् पुरम् ॥ (५९।२)

śuṣkavṛkṣam ivāraṇyam adṛśyam abhavat puram ||

60.1६०.१

मां तु संहृष्टमनसं क्षिप्रं मातलिर् आनयत् । (६०।१)

māṃ tu saṃhṛṣṭamanasaṃ kṣipraṃ mātalir ānayat |

60.2६०.२

देवराजस्य भवनं कृतकर्माणम् आहवात् ॥ (६०।२)

devarājasya bhavanaṃ kṛtakarmāṇam āhavāt ||

61.1६१.१

हिरण्यपुरम् आरुज्य निहत्य च महासुरान् । (६१।१)

hiraṇyapuram ārujya nihatya ca mahāsurān |

61.2६१.२

निवातकवचांश्चैव ततो ऽहं शक्रम् आगमम् ॥ (६१।२)

nivātakavacāṃścaiva tato 'haṃ śakram āgamam ||

62.1६२.१

मम कर्म च देवेन्द्रं मातलिर् विस्तरेण तत् । (६२।१)

mama karma ca devendraṃ mātalir vistareṇa tat |

62.2६२.२

सर्वं विश्रावयामास यथा भूतं महाद्युते ॥ (६२।२)

sarvaṃ viśrāvayāmāsa yathā bhūtaṃ mahādyute ||

63.1६३.१

हिरण्यपुरघातं च मायानां च निवारणम् । (६३।१)

hiraṇyapuraghātaṃ ca māyānāṃ ca nivāraṇam |

63.2६३.२

निवातकवचानां च वधं संख्ये महौजसाम् ॥ (६३।२)

nivātakavacānāṃ ca vadhaṃ saṃkhye mahaujasām ||

64.1६४.१

तच्छ्रुत्वा भगवान् प्रीतः सहस्राक्षः पुरंदरः । (६४।१)

tacchrutvā bhagavān prītaḥ sahasrākṣaḥ puraṃdaraḥ |

64.2६४.२

मरुद्भिः सहितः श्रीमान् साधु साध्वित्य् अथाब्रवीत् ॥ (६४।२)

marudbhiḥ sahitaḥ śrīmān sādhu sādhvity athābravīt ||

65.1६५.१

ततो मां देवराजो वै समाश्वास्य पुनः पुनः । (६५।१)

tato māṃ devarājo vai samāśvāsya punaḥ punaḥ |

65.2६५.२

अब्रवीद् विबुधैः सार्धम् इदं सुमधुरं वचः ॥ (६५।२)

abravīd vibudhaiḥ sārdham idaṃ sumadhuraṃ vacaḥ ||

66.1६६.१

अतिदेवासुरं कर्म कृतम् एतत् त्वया रणे । (६६।१)

atidevāsuraṃ karma kṛtam etat tvayā raṇe |

66.2६६.२

गुर्वर्थश्च महान् पार्थ कृतः शत्रून् घ्नता मम ॥ (६६।२)

gurvarthaśca mahān pārtha kṛtaḥ śatrūn ghnatā mama ||

67.1६७.१

एवम् एव सदा भाव्यं स्थिरेणाजौ धनंजय । (६७।१)

evam eva sadā bhāvyaṃ sthireṇājau dhanaṃjaya |

67.2६७.२

असंमूढेन चास्त्राणां कर्तव्यं प्रतिपादनम् ॥ (६७।२)

asaṃmūḍhena cāstrāṇāṃ kartavyaṃ pratipādanam ||

68.1६८.१

अविषह्यो रणे हि त्वं देवदानवराक्षसैः । (६८।१)

aviṣahyo raṇe hi tvaṃ devadānavarākṣasaiḥ |

68.2६८.२

सयक्षासुरगन्धर्वैः सपक्षिगणपन्नगैः ॥ (६८।२)

sayakṣāsuragandharvaiḥ sapakṣigaṇapannagaiḥ ||

69.1६९.१

वसुधां चापि कौन्तेय त्वद्बाहुबलनिर्जिताम् । (६९।१)

vasudhāṃ cāpi kaunteya tvadbāhubalanirjitām |

69.2६९.२

पालयिष्यति धर्मात्मा कुन्तीपुत्रो युधिष्ठिरः ॥ (६९।२)

pālayiṣyati dharmātmā kuntīputro yudhiṣṭhiraḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 3, 170

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit