MBh, 5, 190
Select a line for its word-by-word analysis.
चकार यत्नं द्रुपदः सर्वस्मिन् स्वजने महत् । (१।२)
cakāra yatnaṃ drupadaḥ sarvasmin svajane mahat |
इष्वस्त्रे चैव राजेन्द्र द्रोणशिष्यो बभूव ह ॥ (१।४)
iṣvastre caiva rājendra droṇaśiṣyo babhūva ha ||
चोदयामास भार्यार्थं कन्यायाः पुत्रवत् तदा ॥ (२।२)
codayāmāsa bhāryārthaṃ kanyāyāḥ putravat tadā ||
ततस्तां पार्षतो दृष्ट्वा कन्यां सम्प्राप्तयौवनाम् । (३।१)
tatastāṃ pārṣato dṛṣṭvā kanyāṃ samprāptayauvanām |
स्त्रियं मत्वा तदा चिन्तां प्रपेदे सह भार्यया ॥ (३।२)
striyaṃ matvā tadā cintāṃ prapede saha bhāryayā ||
कन्या ममेयं सम्प्राप्ता यौवनं शोकवर्धिनी । (४।२)
kanyā mameyaṃ samprāptā yauvanaṃ śokavardhinī |
त्रैलोक्यकर्ता कस्माद्धि तन्मृषा कर्तुम् अर्हति ॥ (५।२)
trailokyakartā kasmāddhi tanmṛṣā kartum arhati ||
श्रुत्वेदानीं प्रपद्येथाः स्वकार्यं पृषतात्मज ॥ (६।३)
śrutvedānīṃ prapadyethāḥ svakāryaṃ pṛṣatātmaja ||
सत्यं भवति तद् वाक्यम् इति मे निश्चिता मतिः ॥ (७।२)
satyaṃ bhavati tad vākyam iti me niścitā matiḥ ||
ततस्तौ निश्चयं कृत्वा तस्मिन् कार्ये ऽथ दम्पती । (८।२)
tatastau niścayaṃ kṛtvā tasmin kārye 'tha dampatī |
वरयांचक्रतुः कन्यां दशार्णाधिपतेः सुताम् ॥ (८।३)
varayāṃcakratuḥ kanyāṃ daśārṇādhipateḥ sutām ||
ततो राजा द्रुपदो राजसिंहः सर्वान् राज्ञः कुलतः संनिशाम्य । (९।१)
tato rājā drupado rājasiṃhaḥ sarvān rājñaḥ kulataḥ saṃniśāmya |
दाशार्णकस्य नृपतेस्तनूजां शिखण्डिने वरयामास दारान् ॥ (९।२)
dāśārṇakasya nṛpatestanūjāṃ śikhaṇḍine varayāmāsa dārān ||
हिरण्यवर्मेति नृपो यो ऽसौ दाशार्णकः स्मृतः । (१०।१)
hiraṇyavarmeti nṛpo yo 'sau dāśārṇakaḥ smṛtaḥ |
स च प्रादान्महीपालः कन्यां तस्मै शिखण्डिने ॥ (१०।२)
sa ca prādānmahīpālaḥ kanyāṃ tasmai śikhaṇḍine ||
यौवनं समनुप्राप्ता सा च कन्या शिखण्डिनी ॥ (१२।२)
yauvanaṃ samanuprāptā sā ca kanyā śikhaṇḍinī ||
कृतदारः शिखण्डी तु काम्पिल्यं पुनर् आगमत् । (१३।१)
kṛtadāraḥ śikhaṇḍī tu kāmpilyaṃ punar āgamat |
न च सा वेद तां कन्यां कंचित् कालं स्त्रियं किल ॥ (१३।२)
na ca sā veda tāṃ kanyāṃ kaṃcit kālaṃ striyaṃ kila ||
हिरण्यवर्मणः कन्या ज्ञात्वा तां तु शिखण्डिनीम् । (१४।१)
hiraṇyavarmaṇaḥ kanyā jñātvā tāṃ tu śikhaṇḍinīm |
धात्रीणां च सखीनां च व्रीडमाना न्यवेदयत् । (१४।२)
dhātrīṇāṃ ca sakhīnāṃ ca vrīḍamānā nyavedayat |
कन्यां पञ्चालराजस्य सुतां तां वै शिखण्डिनीम् ॥ (१४।३)
kanyāṃ pañcālarājasya sutāṃ tāṃ vai śikhaṇḍinīm ||
ततस्ता राजशार्दूल धात्र्यो दाशार्णिकास् तदा । (१५।१)
tatastā rājaśārdūla dhātryo dāśārṇikās tadā |
जग्मुर् आर्तिं परां दुःखात् प्रेषयामासुर् एव च ॥ (१५।२)
jagmur ārtiṃ parāṃ duḥkhāt preṣayāmāsur eva ca ||
ततो दशार्णाधिपतेः प्रेष्याः सर्वं न्यवेदयन् । (१६।१)
tato daśārṇādhipateḥ preṣyāḥ sarvaṃ nyavedayan |
विप्रलम्भं यथावृत्तं स च चुक्रोध पार्थिवः ॥ (१६।२)
vipralambhaṃ yathāvṛttaṃ sa ca cukrodha pārthivaḥ ||
विजहार मुदा युक्तः स्त्रीत्वं नैवातिरोचयन् ॥ (१७।२)
vijahāra mudā yuktaḥ strītvaṃ naivātirocayan ||
हिरण्यवर्मा राजेन्द्र रोषाद् आर्तिं जगाम ह ॥ (१८।२)
hiraṇyavarmā rājendra roṣād ārtiṃ jagāma ha ||
दशार्णराजो राजंस्त्वाम् इदं वचनम् अब्रवीत् । (२१।१)
daśārṇarājo rājaṃstvām idaṃ vacanam abravīt |
अभिषङ्गात् प्रकुपितो विप्रलब्धस्त्वयानघ ॥ (२१।२)
abhiṣaṅgāt prakupito vipralabdhastvayānagha ||
अवमन्यसे मां नृपते नूनं दुर्मन्त्रितं तव । (२२।१)
avamanyase māṃ nṛpate nūnaṃ durmantritaṃ tava |
यन्मे कन्यां स्वकन्यार्थे मोहाद् याचितवान् असि ॥ (२२।२)
yanme kanyāṃ svakanyārthe mohād yācitavān asi ||
तस्याद्य विप्रलम्भस्य फलं प्राप्नुहि दुर्मते । (२३।१)
tasyādya vipralambhasya phalaṃ prāpnuhi durmate |
एष त्वां सजनामात्यम् उद्धरामि स्थिरो भव ॥ (२३।२)
eṣa tvāṃ sajanāmātyam uddharāmi sthiro bhava ||
Data courtesy of The Digital Corpus of Sanskrit.