महाभारतMahābhārata

MBh, 12, 298

1626 of 1995 · 55 verses

Select a line for its word-by-word analysis.

1.1१.१

युधिष्ठिर उवाच । (१।१)

yudhiṣṭhira uvāca

1.2१.२

धर्माधर्मविमुक्तं यद् विमुक्तं सर्वसंश्रयात् । (१।२)

dharmādharmavimuktaṃ yad vimuktaṃ sarvasaṃśrayāt |

1.3१.३

जन्ममृत्युविमुक्तं च विमुक्तं पुण्यपापयोः ॥ (१।३)

janmamṛtyuvimuktaṃ ca vimuktaṃ puṇyapāpayoḥ ||

2.1२.१

यच्छिवं नित्यम् अभयं नित्यं चाक्षरम् अव्ययम् । (२।१)

yacchivaṃ nityam abhayaṃ nityaṃ cākṣaram avyayam |

2.2२.२

शुचि नित्यम् अनायासं तद् भवान् वक्तुम् अर्हति ॥ (२।२)

śuci nityam anāyāsaṃ tad bhavān vaktum arhati ||

3.1३.१

भीष्म उवाच । (३।१)

bhīṣma uvāca

3.2३.२

अत्र ते वर्तयिष्ये ऽहम् इतिहासं पुरातनम् । (३।२)

atra te vartayiṣye 'ham itihāsaṃ purātanam |

3.3३.३

याज्ञवल्क्यस्य संवादं जनकस्य च भारत ॥ (३।३)

yājñavalkyasya saṃvādaṃ janakasya ca bhārata ||

4.1४.१

याज्ञवल्क्यम् ऋषिश्रेष्ठं दैवरातिर् महायशाः । (४।१)

yājñavalkyam ṛṣiśreṣṭhaṃ daivarātir mahāyaśāḥ |

4.2४.२

पप्रच्छ जनको राजा प्रश्नं प्रश्नविदां वरः ॥ (४।२)

papraccha janako rājā praśnaṃ praśnavidāṃ varaḥ ||

5.1५.१

कतीन्द्रियाणि विप्रर्षे कति प्रकृतयः स्मृताः । (५।१)

katīndriyāṇi viprarṣe kati prakṛtayaḥ smṛtāḥ |

5.2५.२

किम् अव्यक्तं परं ब्रह्म तस्माच्च परतस्तु किम् ॥ (५।२)

kim avyaktaṃ paraṃ brahma tasmācca paratastu kim ||

6.1६.१

प्रभवं चाप्ययं चैव कालसंख्यां तथैव च । (६।१)

prabhavaṃ cāpyayaṃ caiva kālasaṃkhyāṃ tathaiva ca |

6.2६.२

वक्तुम् अर्हसि विप्रेन्द्र त्वदनुग्रहकाङ्क्षिणः ॥ (६।२)

vaktum arhasi viprendra tvadanugrahakāṅkṣiṇaḥ ||

7.1७.१

अज्ञानात् परिपृच्छामि त्वं हि ज्ञानमयो निधिः । (७।१)

ajñānāt paripṛcchāmi tvaṃ hi jñānamayo nidhiḥ |

7.2७.२

तद् अहं श्रोतुम् इच्छामि सर्वम् एतद् असंशयम् ॥ (७।२)

tad ahaṃ śrotum icchāmi sarvam etad asaṃśayam ||

8.1८.१

याज्ञवल्क्य उवाच । (८।१)

yājñavalkya uvāca

8.2८.२

श्रूयताम् अवनीपाल यद् एतद् अनुपृच्छसि । (८।२)

śrūyatām avanīpāla yad etad anupṛcchasi |

8.3८.३

योगानां परमं ज्ञानं सांख्यानां च विशेषतः ॥ (८।३)

yogānāṃ paramaṃ jñānaṃ sāṃkhyānāṃ ca viśeṣataḥ ||

9.1९.१

न तवाविदितं किंचिन्मां तु जिज्ञासते भवान् । (९।१)

na tavāviditaṃ kiṃcinmāṃ tu jijñāsate bhavān |

9.2९.२

पृष्टेन चापि वक्तव्यम् एष धर्मः सनातनः ॥ (९।२)

pṛṣṭena cāpi vaktavyam eṣa dharmaḥ sanātanaḥ ||

10.1१०.१

अष्टौ प्रकृतयः प्रोक्ता विकाराश्चापि षोडश । (१०।१)

aṣṭau prakṛtayaḥ proktā vikārāścāpi ṣoḍaśa |

10.2१०.२

अथ सप्त तु व्यक्तानि प्राहुर् अध्यात्मचिन्तकाः ॥ (१०।२)

atha sapta tu vyaktāni prāhur adhyātmacintakāḥ ||

11.1११.१

अव्यक्तं च महांश्चैव तथाहंकार एव च । (११।१)

avyaktaṃ ca mahāṃścaiva tathāhaṃkāra eva ca |

11.2११.२

पृथिवी वायुर् आकाशम् आपो ज्योतिश्च पञ्चमम् ॥ (११।२)

pṛthivī vāyur ākāśam āpo jyotiśca pañcamam ||

12.1१२.१

एताः प्रकृतयस्त्वष्टौ विकारान् अपि मे शृणु । (१२।१)

etāḥ prakṛtayastvaṣṭau vikārān api me śṛṇu |

12.2१२.२

श्रोत्रं त्वक् चैव चक्षुश्च जिह्वा घ्राणं च पञ्चमम् ॥ (१२।२)

śrotraṃ tvak caiva cakṣuśca jihvā ghrāṇaṃ ca pañcamam ||

13.1१३.१

शब्दस्पर्शौ च रूपं च रसो गन्धस्तथैव च । (१३।१)

śabdasparśau ca rūpaṃ ca raso gandhastathaiva ca |

13.2१३.२

वाक् च हस्तौ च पादौ च पायुर् मेढ्रं तथैव च ॥ (१३।२)

vāk ca hastau ca pādau ca pāyur meḍhraṃ tathaiva ca ||

14.1१४.१

एते विशेषा राजेन्द्र महाभूतेषु पञ्चसु । (१४।१)

ete viśeṣā rājendra mahābhūteṣu pañcasu |

14.2१४.२

बुद्धीन्द्रियाण्यथैतानि सविशेषाणि मैथिल ॥ (१४।२)

buddhīndriyāṇyathaitāni saviśeṣāṇi maithila ||

15.1१५.१

मनः षोडशकं प्राहुर् अध्यात्मगतिचिन्तकाः । (१५।१)

manaḥ ṣoḍaśakaṃ prāhur adhyātmagaticintakāḥ |

15.2१५.२

त्वं चैवान्ये च विद्वांसस्तत्त्वबुद्धिविशारदाः ॥ (१५।२)

tvaṃ caivānye ca vidvāṃsastattvabuddhiviśāradāḥ ||

16.1१६.१

अव्यक्ताच्च महान् आत्मा समुत्पद्यति पार्थिव । (१६।१)

avyaktācca mahān ātmā samutpadyati pārthiva |

16.2१६.२

प्रथमं सर्गम् इत्येतद् आहुः प्राधानिकं बुधाः ॥ (१६।२)

prathamaṃ sargam ityetad āhuḥ prādhānikaṃ budhāḥ ||

17.1१७.१

महतश्चाप्यहंकार उत्पद्यति नराधिप । (१७।१)

mahataścāpyahaṃkāra utpadyati narādhipa |

17.2१७.२

द्वितीयं सर्गम् इत्याहुर् एतद् बुद्ध्यात्मकं स्मृतम् ॥ (१७।२)

dvitīyaṃ sargam ityāhur etad buddhyātmakaṃ smṛtam ||

18.1१८.१

अहंकाराच्च सम्भूतं मनो भूतगुणात्मकम् । (१८।१)

ahaṃkārācca sambhūtaṃ mano bhūtaguṇātmakam |

18.2१८.२

तृतीयः सर्ग इत्येष आहंकारिक उच्यते ॥ (१८।२)

tṛtīyaḥ sarga ityeṣa āhaṃkārika ucyate ||

19.1१९.१

मनसस्तु समुद्भूता महाभूता नराधिप । (१९।१)

manasastu samudbhūtā mahābhūtā narādhipa |

19.2१९.२

चतुर्थं सर्गम् इत्येतन्मानसं परिचक्षते ॥ (१९।२)

caturthaṃ sargam ityetanmānasaṃ paricakṣate ||

20.1२०.१

शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च । (२०।१)

śabdaḥ sparśaśca rūpaṃ ca raso gandhastathaiva ca |

20.2२०.२

पञ्चमं सर्गम् इत्याहुर् भौतिकं भूतचिन्तकाः ॥ (२०।२)

pañcamaṃ sargam ityāhur bhautikaṃ bhūtacintakāḥ ||

21.1२१.१

श्रोत्रं त्वक् चैव चक्षुश्च जिह्वा घ्राणं च पञ्चमम् । (२१।१)

śrotraṃ tvak caiva cakṣuśca jihvā ghrāṇaṃ ca pañcamam |

21.2२१.२

सर्गं तु षष्ठम् इत्याहुर् बहुचिन्तात्मकं स्मृतम् ॥ (२१।२)

sargaṃ tu ṣaṣṭham ityāhur bahucintātmakaṃ smṛtam ||

22.1२२.१

अधः श्रोत्रेन्द्रियग्राम उत्पद्यति नराधिप । (२२।१)

adhaḥ śrotrendriyagrāma utpadyati narādhipa |

22.2२२.२

सप्तमं सर्गम् इत्याहुर् एतद् ऐन्द्रियकं स्मृतम् ॥ (२२।२)

saptamaṃ sargam ityāhur etad aindriyakaṃ smṛtam ||

23.1२३.१

ऊर्ध्वस्रोतस्तथा तिर्यग् उत्पद्यति नराधिप । (२३।१)

ūrdhvasrotastathā tiryag utpadyati narādhipa |

23.2२३.२

अष्टमं सर्गम् इत्याहुर् एतद् आर्जवकं बुधाः ॥ (२३।२)

aṣṭamaṃ sargam ityāhur etad ārjavakaṃ budhāḥ ||

24.1२४.१

तिर्यक्स्रोतस् त्वधःस्रोत उत्पद्यति नराधिप । (२४।१)

tiryaksrotas tvadhaḥsrota utpadyati narādhipa |

24.2२४.२

नवमं सर्गम् इत्याहुर् एतद् आर्जवकं बुधाः ॥ (२४।२)

navamaṃ sargam ityāhur etad ārjavakaṃ budhāḥ ||

25.1२५.१

एतानि नव सर्गाणि तत्त्वानि च नराधिप । (२५।१)

etāni nava sargāṇi tattvāni ca narādhipa |

25.2२५.२

चतुर्विंशतिर् उक्तानि यथाश्रुतिनिदर्शनात् ॥ (२५।२)

caturviṃśatir uktāni yathāśrutinidarśanāt ||

26.1२६.१

अत ऊर्ध्वं महाराज गुणस्यैतस्य तत्त्वतः । (२६।१)

ata ūrdhvaṃ mahārāja guṇasyaitasya tattvataḥ |

26.2२६.२

महात्मभिर् अनुप्रोक्तां कालसंख्यां निबोध मे ॥ (२६।२)

mahātmabhir anuproktāṃ kālasaṃkhyāṃ nibodha me ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 12, 298

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit