महाभारतMahābhārata

MBh, 13, 1

1682 of 1995 · 181 verses

Select a line for its word-by-word analysis.

1.1१.१

युधिष्ठिर उवाच । (१।१)

yudhiṣṭhira uvāca

1.2१.२

शमो बहुविधाकारः सूक्ष्म उक्तः पितामह । (१।२)

śamo bahuvidhākāraḥ sūkṣma uktaḥ pitāmaha |

1.3१.३

न च मे हृदये शान्तिर् अस्ति कृत्वेदम् ईदृशम् ॥ (१।३)

na ca me hṛdaye śāntir asti kṛtvedam īdṛśam ||

2.1२.१

अस्मिन्न् अर्थे बहुविधा शान्तिर् उक्ता त्वयानघ । (२।१)

asminn arthe bahuvidhā śāntir uktā tvayānagha |

2.2२.२

स्वकृते का नु शान्तिः स्याच्छमाद् बहुविधाद् अपि ॥ (२।२)

svakṛte kā nu śāntiḥ syācchamād bahuvidhād api ||

3.1३.१

शराचितशरीरं हि तीव्रव्रणम् उदीक्ष्य च । (३।१)

śarācitaśarīraṃ hi tīvravraṇam udīkṣya ca |

3.2३.२

शमं नोपलभे वीर दुष्कृतान्येव चिन्तयन् ॥ (३।२)

śamaṃ nopalabhe vīra duṣkṛtānyeva cintayan ||

4.1४.१

रुधिरेणावसिक्ताङ्गं प्रस्रवन्तं यथाचलम् । (४।१)

rudhireṇāvasiktāṅgaṃ prasravantaṃ yathācalam |

4.2४.२

त्वां दृष्ट्वा पुरुषव्याघ्र सीदे वर्षास्विवाम्बुजम् ॥ (४।२)

tvāṃ dṛṣṭvā puruṣavyāghra sīde varṣāsvivāmbujam ||

5.1५.१

अतः कष्टतरं किं नु मत्कृते यत् पितामहः । (५।१)

ataḥ kaṣṭataraṃ kiṃ nu matkṛte yat pitāmahaḥ |

5.2५.२

इमाम् अवस्थां गमितः प्रत्यमित्रै रणाजिरे । (५।२)

imām avasthāṃ gamitaḥ pratyamitrai raṇājire |

5.3५.३

तथैवान्ये नृपतयः सहपुत्राः सबान्धवाः ॥ (५।३)

tathaivānye nṛpatayaḥ sahaputrāḥ sabāndhavāḥ ||

6.1६.१

वयं हि धार्तराष्ट्राश्च कालमन्युवशानुगाः । (६।१)

vayaṃ hi dhārtarāṣṭrāśca kālamanyuvaśānugāḥ |

6.2६.२

कृत्वेदं निन्दितं कर्म प्राप्स्यामः कां गतिं नृप ॥ (६।२)

kṛtvedaṃ ninditaṃ karma prāpsyāmaḥ kāṃ gatiṃ nṛpa ||

7.1७.१

अहं तव ह्यन्तकरः सुहृद्वधकरस्तथा । (७।१)

ahaṃ tava hyantakaraḥ suhṛdvadhakarastathā |

7.2७.२

न शान्तिम् अधिगच्छामि पश्यंस्त्वां दुःखितं क्षितौ ॥ (७।२)

na śāntim adhigacchāmi paśyaṃstvāṃ duḥkhitaṃ kṣitau ||

8.1८.१

भीष्म उवाच । (८।१)

bhīṣma uvāca

8.2८.२

परतन्त्रं कथं हेतुम् आत्मानम् अनुपश्यसि । (८।२)

paratantraṃ kathaṃ hetum ātmānam anupaśyasi |

8.3८.३

कर्मण्यस्मिन्महाभाग सूक्ष्मं ह्येतद् अतीन्द्रियम् ॥ (८।३)

karmaṇyasminmahābhāga sūkṣmaṃ hyetad atīndriyam ||

9.1९.१

अत्राप्युदाहरन्तीमम् इतिहासं पुरातनम् । (९।१)

atrāpyudāharantīmam itihāsaṃ purātanam |

9.2९.२

संवादं मृत्युगौतम्योः काललुब्धकपन्नगैः ॥ (९।२)

saṃvādaṃ mṛtyugautamyoḥ kālalubdhakapannagaiḥ ||

10.1१०.१

गौतमी नाम कौन्तेय स्थविरा शमसंयुता । (१०।१)

gautamī nāma kaunteya sthavirā śamasaṃyutā |

10.2१०.२

सर्पेण दष्टं स्वं पुत्रम् अपश्यद् गतचेतनम् ॥ (१०।२)

sarpeṇa daṣṭaṃ svaṃ putram apaśyad gatacetanam ||

11.1११.१

अथ तं स्नायुपाशेन बद्ध्वा सर्पम् अमर्षितः । (११।१)

atha taṃ snāyupāśena baddhvā sarpam amarṣitaḥ |

11.2११.२

लुब्धको ऽर्जुनको नाम गौतम्याः समुपानयत् ॥ (११।२)

lubdhako 'rjunako nāma gautamyāḥ samupānayat ||

12.1१२.१

तां चाब्रवीद् अयं ते स पुत्रहा पन्नगाधमः । (१२।१)

tāṃ cābravīd ayaṃ te sa putrahā pannagādhamaḥ |

12.2१२.२

ब्रूहि क्षिप्रं महाभागे वध्यतां केन हेतुना ॥ (१२।२)

brūhi kṣipraṃ mahābhāge vadhyatāṃ kena hetunā ||

13.1१३.१

अग्नौ प्रक्षिप्यताम् एष छिद्यतां खण्डशो ऽपि वा । (१३।१)

agnau prakṣipyatām eṣa chidyatāṃ khaṇḍaśo 'pi vā |

13.2१३.२

न ह्ययं बालहा पापश्चिरं जीवितुम् अर्हति ॥ (१३।२)

na hyayaṃ bālahā pāpaściraṃ jīvitum arhati ||

14.1१४.१

गौतम्युवाच । (१४।१)

gautamyuvāca |

14.2१४.२

विसृजैनम् अबुद्धिस्त्वं न वध्यो ऽर्जुनक त्वया । (१४।२)

visṛjainam abuddhistvaṃ na vadhyo 'rjunaka tvayā |

14.3१४.३

को ह्यात्मानं गुरुं कुर्यात् प्राप्तव्ये सति चिन्तयन् ॥ (१४।३)

ko hyātmānaṃ guruṃ kuryāt prāptavye sati cintayan ||

15.1१५.१

प्लवन्ते धर्मलघवो लोके ऽम्भसि यथा प्लवाः । (१५।१)

plavante dharmalaghavo loke 'mbhasi yathā plavāḥ |

15.2१५.२

मज्जन्ति पापगुरवः शस्त्रं स्कन्नम् इवोदके ॥ (१५।२)

majjanti pāpaguravaḥ śastraṃ skannam ivodake ||

16.1१६.१

न चामृत्युर् भविता वै हते ऽस्मिन् को वात्ययः स्याद् अहते ऽस्मिञ् जनस्य । (१६।१)

na cāmṛtyur bhavitā vai hate 'smin ko vātyayaḥ syād ahate 'smiñ janasya |

16.2१६.२

अस्योत्सर्गे प्राणयुक्तस्य जन्तोर् मृत्योर् लोकं को नु गच्छेद् अनन्तम् ॥ (१६।२)

asyotsarge prāṇayuktasya jantor mṛtyor lokaṃ ko nu gacched anantam ||

17.1१७.१

लुब्धक उवाच । (१७।१)

lubdhaka uvāca

17.2१७.२

जानाम्येवं नेह गुणागुणज्ञाः सर्वे नियुक्ता गुरवो वै भवन्ति । (१७।२)

jānāmyevaṃ neha guṇāguṇajñāḥ sarve niyuktā guravo vai bhavanti |

17.3१७.३

स्वस्थस्यैते तूपदेशा भवन्ति तस्मात् क्षुद्रं सर्पम् एनं हनिष्ये ॥ (१७।३)

svasthasyaite tūpadeśā bhavanti tasmāt kṣudraṃ sarpam enaṃ haniṣye ||

18.1१८.१

समीप्सन्तः कालयोगं त्यजन्ति सद्यः शुचं त्वर्थविदस्त्यजन्ति । (१८।१)

samīpsantaḥ kālayogaṃ tyajanti sadyaḥ śucaṃ tvarthavidastyajanti |

18.2१८.२

श्रेयः क्षयः शोचतां नित्यशो हि तस्मात् त्याज्यं जहि शोकं हते ऽस्मिन् ॥ (१८।२)

śreyaḥ kṣayaḥ śocatāṃ nityaśo hi tasmāt tyājyaṃ jahi śokaṃ hate 'smin ||

19.1१९.१

गौतम्युवाच । (१९।१)

gautamyuvāca |

19.2१९.२

न चैवार्तिर् विद्यते ऽस्मद्विधानां धर्मारामः सततं सज्जनो हि । (१९।२)

na caivārtir vidyate 'smadvidhānāṃ dharmārāmaḥ satataṃ sajjano hi |

19.3१९.३

नित्यायस्तो बालजनो न चास्ति धर्मो ह्येष प्रभवाम्यस्य नाहम् ॥ (१९।३)

nityāyasto bālajano na cāsti dharmo hyeṣa prabhavāmyasya nāham ||

20.1२०.१

न ब्राह्मणानां कोपो ऽस्ति कुतः कोपाच्च यातना । (२०।१)

na brāhmaṇānāṃ kopo 'sti kutaḥ kopācca yātanā |

20.2२०.२

मार्दवात् क्षम्यतां साधो मुच्यताम् एष पन्नगः ॥ (२०।२)

mārdavāt kṣamyatāṃ sādho mucyatām eṣa pannagaḥ ||

21.1२१.१

लुब्धक उवाच । (२१।१)

lubdhaka uvāca

21.2२१.२

हत्वा लाभः श्रेय एवाव्ययं स्यात् सद्यो लाभो बलवद्भिः प्रशस्तः । (२१।२)

hatvā lābhaḥ śreya evāvyayaṃ syāt sadyo lābho balavadbhiḥ praśastaḥ |

21.3२१.३

कालाल् लाभो यस्तु सद्यो भवेत हते श्रेयः कुत्सिते त्वीदृशे स्यात् ॥ (२१।३)

kālāl lābho yastu sadyo bhaveta hate śreyaḥ kutsite tvīdṛśe syāt ||

22.1२२.१

गौतम्युवाच । (२२।१)

gautamyuvāca |

22.2२२.२

कार्थप्राप्तिर् गृह्य शत्रुं निहत्य का वा शान्तिः प्राप्य शत्रुं नमुक्त्वा । (२२।२)

kārthaprāptir gṛhya śatruṃ nihatya kā vā śāntiḥ prāpya śatruṃ namuktvā |

22.3२२.३

कस्मात् सौम्य भुजगे न क्षमेयं मोक्षं वा किं कारणं नास्य कुर्याम् ॥ (२२।३)

kasmāt saumya bhujage na kṣameyaṃ mokṣaṃ vā kiṃ kāraṇaṃ nāsya kuryām ||

23.1२३.१

लुब्धक उवाच । (२३।१)

lubdhaka uvāca

23.2२३.२

अस्माद् एकस्माद् बहवो रक्षितव्या नैको बहुभ्यो गौतमि रक्षितव्यः । (२३।२)

asmād ekasmād bahavo rakṣitavyā naiko bahubhyo gautami rakṣitavyaḥ |

23.3२३.३

कृतागसं धर्मविदस्त्यजन्ति सरीसृपं पापम् इमं जहि त्वम् ॥ (२३।३)

kṛtāgasaṃ dharmavidastyajanti sarīsṛpaṃ pāpam imaṃ jahi tvam ||

24.1२४.१

गौतम्युवाच । (२४।१)

gautamyuvāca |

24.2२४.२

नास्मिन् हते पन्नगे पुत्रको मे सम्प्राप्स्यते लुब्धक जीवितं वै । (२४।२)

nāsmin hate pannage putrako me samprāpsyate lubdhaka jīvitaṃ vai |

24.3२४.३

गुणं चान्यं नास्य वधे प्रपश्ये तस्मात् सर्पं लुब्धक मुञ्च जीवम् ॥ (२४।३)

guṇaṃ cānyaṃ nāsya vadhe prapaśye tasmāt sarpaṃ lubdhaka muñca jīvam ||

25.1२५.१

लुब्धक उवाच । (२५।१)

lubdhaka uvāca

25.2२५.२

वृत्रं हत्वा देवराट् श्रेष्ठभाग् वै यज्ञं हत्वा भागम् अवाप चैव । (२५।२)

vṛtraṃ hatvā devarāṭ śreṣṭhabhāg vai yajñaṃ hatvā bhāgam avāpa caiva |

25.3२५.३

शूली देवो देववृत्तं कुरु त्वं क्षिप्रं सर्पं जहि मा भूद् विशङ्का ॥ (२५।३)

śūlī devo devavṛttaṃ kuru tvaṃ kṣipraṃ sarpaṃ jahi mā bhūd viśaṅkā ||

26.1२६.१

भीष्म उवाच । (२६।१)

bhīṣma uvāca

26.2२६.२

असकृत् प्रोच्यमानापि गौतमी भुजगं प्रति । (२६।२)

asakṛt procyamānāpi gautamī bhujagaṃ prati |

26.3२६.३

लुब्धकेन महाभागा पापे नैवाकरोन्मतिम् ॥ (२६।३)

lubdhakena mahābhāgā pāpe naivākaronmatim ||

27.1२७.१

ईषद् उच्छ्वसमानस्तु कृच्छ्रात् संस्तभ्य पन्नगः । (२७।१)

īṣad ucchvasamānastu kṛcchrāt saṃstabhya pannagaḥ |

27.2२७.२

उत्ससर्ज गिरं मन्दां मानुषीं पाशपीडितः ॥ (२७।२)

utsasarja giraṃ mandāṃ mānuṣīṃ pāśapīḍitaḥ ||

28.1२८.१

को न्वर्जुनक दोषो ऽत्र विद्यते मम बालिश । (२८।१)

ko nvarjunaka doṣo 'tra vidyate mama bāliśa |

28.2२८.२

अस्वतन्त्रं हि मां मृत्युर् विवशं यद् अचूचुदत् ॥ (२८।२)

asvatantraṃ hi māṃ mṛtyur vivaśaṃ yad acūcudat ||

29.1२९.१

तस्यायं वचनाद् दष्टो न कोपेन न काम्यया । (२९।१)

tasyāyaṃ vacanād daṣṭo na kopena na kāmyayā |

29.2२९.२

तस्य तत् किल्बिषं लुब्ध विद्यते यदि किल्बिषम् ॥ (२९।२)

tasya tat kilbiṣaṃ lubdha vidyate yadi kilbiṣam ||

30.1३०.१

लुब्धक उवाच । (३०।१)

lubdhaka uvāca

30.2३०.२

यद्यन्यवशगेनेदं कृतं ते पन्नगाशुभम् । (३०।२)

yadyanyavaśagenedaṃ kṛtaṃ te pannagāśubham |

30.3३०.३

कारणं वै त्वम् अप्यत्र तस्मात् त्वम् अपि किल्बिषी ॥ (३०।३)

kāraṇaṃ vai tvam apyatra tasmāt tvam api kilbiṣī ||

31.1३१.१

मृत्पात्रस्य क्रियायां हि दण्डचक्रादयो यथा । (३१।१)

mṛtpātrasya kriyāyāṃ hi daṇḍacakrādayo yathā |

31.2३१.२

कारणत्वे प्रकल्प्यन्ते तथा त्वम् अपि पन्नग ॥ (३१।२)

kāraṇatve prakalpyante tathā tvam api pannaga ||

32.1३२.१

किल्बिषी चापि मे वध्यः किल्बिषी चासि पन्नग । (३२।१)

kilbiṣī cāpi me vadhyaḥ kilbiṣī cāsi pannaga |

32.2३२.२

आत्मानं कारणं ह्यत्र त्वम् आख्यासि भुजंगम ॥ (३२।२)

ātmānaṃ kāraṇaṃ hyatra tvam ākhyāsi bhujaṃgama ||

33.1३३.१

सर्प उवाच । (३३।१)

sarpa uvāca

33.2३३.२

सर्व एते ह्यस्ववशा दण्डचक्रादयो यथा । (३३।२)

sarva ete hyasvavaśā daṇḍacakrādayo yathā |

33.3३३.३

तथाहम् अपि तस्मान्मे नैष हेतुर् मतस्तव ॥ (३३।३)

tathāham api tasmānme naiṣa hetur matastava ||

34.1३४.१

अथ वा मतम् एतत् ते ते ऽप्यन्योन्यप्रयोजकाः । (३४।१)

atha vā matam etat te te 'pyanyonyaprayojakāḥ |

34.2३४.२

कार्यकारणसंदेहो भवत्यन्योन्यचोदनात् ॥ (३४।२)

kāryakāraṇasaṃdeho bhavatyanyonyacodanāt ||

35.1३५.१

एवं सति न दोषो मे नास्मि वध्यो न किल्बिषी । (३५।१)

evaṃ sati na doṣo me nāsmi vadhyo na kilbiṣī |

35.2३५.२

किल्बिषं समवाये स्यान्मन्यसे यदि किल्बिषम् ॥ (३५।२)

kilbiṣaṃ samavāye syānmanyase yadi kilbiṣam ||

36.1३६.१

लुब्धक उवाच । (३६।१)

lubdhaka uvāca

36.2३६.२

कारणं यदि न स्याद् वै न कर्ता स्यास्त्वम् अप्युत । (३६।२)

kāraṇaṃ yadi na syād vai na kartā syāstvam apyuta |

36.3३६.३

विनाशे कारणं त्वं च तस्माद् वध्यो ऽसि मे मतः ॥ (३६।३)

vināśe kāraṇaṃ tvaṃ ca tasmād vadhyo 'si me mataḥ ||

37.1३७.१

असत्यपि कृते कार्ये नेह पन्नग लिप्यते । (३७।१)

asatyapi kṛte kārye neha pannaga lipyate |

37.2३७.२

तस्मान्नात्रैव हेतुः स्याद् वध्यः किं बहु भाषसे ॥ (३७।२)

tasmānnātraiva hetuḥ syād vadhyaḥ kiṃ bahu bhāṣase ||

38.1३८.१

सर्प उवाच । (३८।१)

sarpa uvāca

38.2३८.२

कार्याभावे क्रिया न स्यात् सत्यसत्यपि कारणे । (३८।२)

kāryābhāve kriyā na syāt satyasatyapi kāraṇe |

38.3३८.३

तस्मात् त्वम् अस्मिन् हेतौ मे वाच्यो हेतुर् विशेषतः ॥ (३८।३)

tasmāt tvam asmin hetau me vācyo hetur viśeṣataḥ ||

39.1३९.१

यद्यहं कारणत्वेन मतो लुब्धक तत्त्वतः । (३९।१)

yadyahaṃ kāraṇatvena mato lubdhaka tattvataḥ |

39.2३९.२

अन्यः प्रयोगे स्याद् अत्र किल्बिषी जन्तुनाशने ॥ (३९।२)

anyaḥ prayoge syād atra kilbiṣī jantunāśane ||

40.1४०.१

लुब्धक उवाच । (४०।१)

lubdhaka uvāca

40.2४०.२

वध्यस्त्वं मम दुर्बुद्धे बालघाती नृशंसकृत् । (४०।२)

vadhyastvaṃ mama durbuddhe bālaghātī nṛśaṃsakṛt |

40.3४०.३

भाषसे किं बहु पुनर् वध्यः सन् पन्नगाधम ॥ (४०।३)

bhāṣase kiṃ bahu punar vadhyaḥ san pannagādhama ||

41.1४१.१

सर्प उवाच । (४१।१)

sarpa uvāca

41.2४१.२

यथा हवींषि जुह्वाना मखे वै लुब्धकर्त्विजः । (४१।२)

yathā havīṃṣi juhvānā makhe vai lubdhakartvijaḥ |

41.3४१.३

न फलं प्राप्नुवन्त्यत्र परलोके तथा ह्यहम् ॥ (४१।३)

na phalaṃ prāpnuvantyatra paraloke tathā hyaham ||

42.1४२.१

भीष्म उवाच । (४२।१)

bhīṣma uvāca

42.2४२.२

तथा ब्रुवति तस्मिंस्तु पन्नगे मृत्युचोदिते । (४२।२)

tathā bruvati tasmiṃstu pannage mṛtyucodite |

42.3४२.३

आजगाम ततो मृत्युः पन्नगं चाब्रवीद् इदम् ॥ (४२।३)

ājagāma tato mṛtyuḥ pannagaṃ cābravīd idam ||

43.1४३.१

कालेनाहं प्रणुदितः पन्नग त्वाम् अचूचुदम् । (४३।१)

kālenāhaṃ praṇuditaḥ pannaga tvām acūcudam |

43.2४३.२

विनाशहेतुर् नास्य त्वम् अहं वा प्राणिनः शिशोः ॥ (४३।२)

vināśahetur nāsya tvam ahaṃ vā prāṇinaḥ śiśoḥ ||

44.1४४.१

यथा वायुर् जलधरान् विकर्षति ततस्ततः । (४४।१)

yathā vāyur jaladharān vikarṣati tatastataḥ |

44.2४४.२

तद्वज्जलदवत् सर्प कालस्याहं वशानुगः ॥ (४४।२)

tadvajjaladavat sarpa kālasyāhaṃ vaśānugaḥ ||

45.1४५.१

सात्त्विका राजसाश्चैव तामसा ये च केचन । (४५।१)

sāttvikā rājasāścaiva tāmasā ye ca kecana |

45.2४५.२

भावाः कालात्मकाः सर्वे प्रवर्तन्ते हि जन्तुषु ॥ (४५।२)

bhāvāḥ kālātmakāḥ sarve pravartante hi jantuṣu ||

46.1४६.१

जङ्गमाः स्थावराश्चैव दिवि वा यदि वा भुवि । (४६।१)

jaṅgamāḥ sthāvarāścaiva divi vā yadi vā bhuvi |

46.2४६.२

सर्वे कालात्मकाः सर्प कालात्मकम् इदं जगत् ॥ (४६।२)

sarve kālātmakāḥ sarpa kālātmakam idaṃ jagat ||

47.1४७.१

प्रवृत्तयश्च या लोके तथैव च निवृत्तयः । (४७।१)

pravṛttayaśca yā loke tathaiva ca nivṛttayaḥ |

47.2४७.२

तासां विकृतयो याश्च सर्वं कालात्मकं स्मृतम् ॥ (४७।२)

tāsāṃ vikṛtayo yāśca sarvaṃ kālātmakaṃ smṛtam ||

48.1४८.१

आदित्यश्चन्द्रमा विष्णुर् आपो वायुः शतक्रतुः । (४८।१)

ādityaścandramā viṣṇur āpo vāyuḥ śatakratuḥ |

48.2४८.२

अग्निः खं पृथिवी मित्र ओषध्यो वसवस्तथा ॥ (४८।२)

agniḥ khaṃ pṛthivī mitra oṣadhyo vasavastathā ||

49.1४९.१

सरितः सागराश्चैव भावाभावौ च पन्नग । (४९।१)

saritaḥ sāgarāścaiva bhāvābhāvau ca pannaga |

49.2४९.२

सर्वे कालेन सृज्यन्ते ह्रियन्ते च तथा पुनः ॥ (४९।२)

sarve kālena sṛjyante hriyante ca tathā punaḥ ||

50.1५०.१

एवं ज्ञात्वा कथं मां त्वं सदोषं सर्प मन्यसे । (५०।१)

evaṃ jñātvā kathaṃ māṃ tvaṃ sadoṣaṃ sarpa manyase |

50.2५०.२

अथ चैवंगते दोषो मयि त्वम् अपि दोषवान् ॥ (५०।२)

atha caivaṃgate doṣo mayi tvam api doṣavān ||

51.1५१.१

सर्प उवाच । (५१।१)

sarpa uvāca

51.2५१.२

निर्दोषं दोषवन्तं वा न त्वा मृत्यो ब्रवीम्यहम् । (५१।२)

nirdoṣaṃ doṣavantaṃ vā na tvā mṛtyo bravīmyaham |

51.3५१.३

त्वयाहं चोदित इति ब्रवीम्येतावद् एव तु ॥ (५१।३)

tvayāhaṃ codita iti bravīmyetāvad eva tu ||

52.1५२.१

यदि काले तु दोषो ऽस्ति यदि तत्रापि नेष्यते । (५२।१)

yadi kāle tu doṣo 'sti yadi tatrāpi neṣyate |

52.2५२.२

दोषो नैव परीक्ष्यो मे न ह्यत्राधिकृता वयम् ॥ (५२।२)

doṣo naiva parīkṣyo me na hyatrādhikṛtā vayam ||

53.1५३.१

निर्मोक्षस्त्वस्य दोषस्य मया कार्यो यथा तथा । (५३।१)

nirmokṣastvasya doṣasya mayā kāryo yathā tathā |

53.2५३.२

मृत्यो विदोषः स्याम् एव यथा तन्मे प्रयोजनम् ॥ (५३।२)

mṛtyo vidoṣaḥ syām eva yathā tanme prayojanam ||

54.1५४.१

भीष्म उवाच । (५४।१)

bhīṣma uvāca

54.2५४.२

सर्पो ऽथार्जुनकं प्राह श्रुतं ते मृत्युभाषितम् । (५४।२)

sarpo 'thārjunakaṃ prāha śrutaṃ te mṛtyubhāṣitam |

54.3५४.३

नानागसं मां पाशेन संतापयितुम् अर्हसि ॥ (५४।३)

nānāgasaṃ māṃ pāśena saṃtāpayitum arhasi ||

55.1५५.१

लुब्धक उवाच । (५५।१)

lubdhaka uvāca

55.2५५.२

मृत्योः श्रुतं मे वचनं तव चैव भुजंगम । (५५।२)

mṛtyoḥ śrutaṃ me vacanaṃ tava caiva bhujaṃgama |

55.3५५.३

नैव तावद् विदोषत्वं भवति त्वयि पन्नग ॥ (५५।३)

naiva tāvad vidoṣatvaṃ bhavati tvayi pannaga ||

56.1५६.१

मृत्युस्त्वं चैव हेतुर् हि जन्तोर् अस्य विनाशने । (५६।१)

mṛtyustvaṃ caiva hetur hi jantor asya vināśane |

56.2५६.२

उभयं कारणं मन्ये न कारणम् अकारणम् ॥ (५६।२)

ubhayaṃ kāraṇaṃ manye na kāraṇam akāraṇam ||

57.1५७.१

धिङ् मृत्युं च दुरात्मानं क्रूरं दुःखकरं सताम् । (५७।१)

dhiṅ mṛtyuṃ ca durātmānaṃ krūraṃ duḥkhakaraṃ satām |

57.2५७.२

त्वां चैवाहं वधिष्यामि पापं पापस्य कारणम् ॥ (५७।२)

tvāṃ caivāhaṃ vadhiṣyāmi pāpaṃ pāpasya kāraṇam ||

58.1५८.१

मृत्युर् उवाच । (५८।१)

mṛtyur uvāca

58.2५८.२

विवशौ कालवशगावावां तद्दिष्टकारिणौ । (५८।२)

vivaśau kālavaśagāvāvāṃ taddiṣṭakāriṇau |

58.3५८.३

नावां दोषेण गन्तव्यौ यदि सम्यक् प्रपश्यसि ॥ (५८।३)

nāvāṃ doṣeṇa gantavyau yadi samyak prapaśyasi ||

59.1५९.१

लुब्धक उवाच । (५९।१)

lubdhaka uvāca

59.2५९.२

युवाम् उभौ कालवशौ यदि वै मृत्युपन्नगौ । (५९।२)

yuvām ubhau kālavaśau yadi vai mṛtyupannagau |

59.3५९.३

हर्षक्रोधौ कथं स्याताम् एतद् इच्छामि वेदितुम् ॥ (५९।३)

harṣakrodhau kathaṃ syātām etad icchāmi veditum ||

60.1६०.१

मृत्युर् उवाच । (६०।१)

mṛtyur uvāca

60.2६०.२

याः काश्चिद् इह चेष्टाः स्युः सर्वाः कालप्रचोदिताः । (६०।२)

yāḥ kāścid iha ceṣṭāḥ syuḥ sarvāḥ kālapracoditāḥ |

60.3६०.३

पूर्वम् एवैतद् उक्तं हि मया लुब्धक कालतः ॥ (६०।३)

pūrvam evaitad uktaṃ hi mayā lubdhaka kālataḥ ||

61.1६१.१

तस्माद् उभौ कालवशावावां तद्दिष्टकारिणौ । (६१।१)

tasmād ubhau kālavaśāvāvāṃ taddiṣṭakāriṇau |

61.2६१.२

नावां दोषेण गन्तव्यौ त्वया लुब्धक कर्हिचित् ॥ (६१।२)

nāvāṃ doṣeṇa gantavyau tvayā lubdhaka karhicit ||

62.1६२.१

भीष्म उवाच । (६२।१)

bhīṣma uvāca

62.2६२.२

अथोपगम्य कालस्तु तस्मिन् धर्मार्थसंशये । (६२।२)

athopagamya kālastu tasmin dharmārthasaṃśaye |

62.3६२.३

अब्रवीत् पन्नगं मृत्युं लुब्धम् अर्जुनकं च तम् ॥ (६२।३)

abravīt pannagaṃ mṛtyuṃ lubdham arjunakaṃ ca tam ||

63.1६३.१

काल उवाच । (६३।१)

kāla uvāca

63.2६३.२

नैवाहं नाप्ययं मृत्युर् नायं लुब्धक पन्नगः । (६३।२)

naivāhaṃ nāpyayaṃ mṛtyur nāyaṃ lubdhaka pannagaḥ |

63.3६३.३

किल्बिषी जन्तुमरणे न वयं हि प्रयोजकाः ॥ (६३।३)

kilbiṣī jantumaraṇe na vayaṃ hi prayojakāḥ ||

64.1६४.१

अकरोद् यद् अयं कर्म तन्नो ऽर्जुनक चोदकम् । (६४।१)

akarod yad ayaṃ karma tanno 'rjunaka codakam |

64.2६४.२

प्रणाशहेतुर् नान्यो ऽस्य वध्यते ऽयं स्वकर्मणा ॥ (६४।२)

praṇāśahetur nānyo 'sya vadhyate 'yaṃ svakarmaṇā ||

65.1६५.१

यद् अनेन कृतं कर्म तेनायं निधनं गतः । (६५।१)

yad anena kṛtaṃ karma tenāyaṃ nidhanaṃ gataḥ |

65.2६५.२

विनाशहेतुः कर्मास्य सर्वे कर्मवशा वयम् ॥ (६५।२)

vināśahetuḥ karmāsya sarve karmavaśā vayam ||

66.1६६.१

कर्मदायादवांल् लोकः कर्मसंबन्धलक्षणः । (६६।१)

karmadāyādavāṃl lokaḥ karmasaṃbandhalakṣaṇaḥ |

66.2६६.२

कर्माणि चोदयन्तीह यथान्योन्यं तथा वयम् ॥ (६६।२)

karmāṇi codayantīha yathānyonyaṃ tathā vayam ||

67.1६७.१

यथा मृत्पिण्डतः कर्ता कुरुते यद् यद् इच्छति । (६७।१)

yathā mṛtpiṇḍataḥ kartā kurute yad yad icchati |

67.2६७.२

एवम् आत्मकृतं कर्म मानवः प्रतिपद्यते ॥ (६७।२)

evam ātmakṛtaṃ karma mānavaḥ pratipadyate ||

68.1६८.१

यथा छायातपौ नित्यं सुसम्बद्धौ निरन्तरम् । (६८।१)

yathā chāyātapau nityaṃ susambaddhau nirantaram |

68.2६८.२

तथा कर्म च कर्ता च सम्बद्धावात्मकर्मभिः ॥ (६८।२)

tathā karma ca kartā ca sambaddhāvātmakarmabhiḥ ||

69.1६९.१

एवं नाहं न वै मृत्युर् न सर्पो न तथा भवान् । (६९।१)

evaṃ nāhaṃ na vai mṛtyur na sarpo na tathā bhavān |

69.2६९.२

न चेयं ब्राह्मणी वृद्धा शिशुर् एवात्र कारणम् ॥ (६९।२)

na ceyaṃ brāhmaṇī vṛddhā śiśur evātra kāraṇam ||

70.1७०.१

तस्मिंस्तथा ब्रुवाणे तु ब्राह्मणी गौतमी नृप । (७०।१)

tasmiṃstathā bruvāṇe tu brāhmaṇī gautamī nṛpa |

70.2७०.२

स्वकर्मप्रत्ययांल् लोकान्मत्वार्जुनकम् अब्रवीत् ॥ (७०।२)

svakarmapratyayāṃl lokānmatvārjunakam abravīt ||

71.1७१.१

नैव कालो न भुजगो न मृत्युर् इह कारणम् । (७१।१)

naiva kālo na bhujago na mṛtyur iha kāraṇam |

71.2७१.२

स्वकर्मभिर् अयं बालः कालेन निधनं गतः ॥ (७१।२)

svakarmabhir ayaṃ bālaḥ kālena nidhanaṃ gataḥ ||

72.1७२.१

मया च तत् कृतं कर्म येनायं मे मृतः सुतः । (७२।१)

mayā ca tat kṛtaṃ karma yenāyaṃ me mṛtaḥ sutaḥ |

72.2७२.२

यातु कालस्तथा मृत्युर् मुञ्चार्जुनक पन्नगम् ॥ (७२।२)

yātu kālastathā mṛtyur muñcārjunaka pannagam ||

73.1७३.१

भीष्म उवाच । (७३।१)

bhīṣma uvāca

73.2७३.२

ततो यथागतं जग्मुर् मृत्युः कालो ऽथ पन्नगः । (७३।२)

tato yathāgataṃ jagmur mṛtyuḥ kālo 'tha pannagaḥ |

73.3७३.३

अभूद् विरोषो ऽर्जुनको विशोका चैव गौतमी ॥ (७३।३)

abhūd viroṣo 'rjunako viśokā caiva gautamī ||

74.1७४.१

एतच्छ्रुत्वा शमं गच्छ मा भूश्चिन्तापरो नृप । (७४।१)

etacchrutvā śamaṃ gaccha mā bhūścintāparo nṛpa |

74.2७४.२

स्वकर्मप्रत्ययांल् लोकांस्त्रीन् विद्धि मनुजर्षभ ॥ (७४।२)

svakarmapratyayāṃl lokāṃstrīn viddhi manujarṣabha ||

75.1७५.१

न तु त्वया कृतं पार्थ नापि दुर्योधनेन वै । (७५।१)

na tu tvayā kṛtaṃ pārtha nāpi duryodhanena vai |

75.2७५.२

कालेन तत् कृतं विद्धि विहता येन पार्थिवाः ॥ (७५।२)

kālena tat kṛtaṃ viddhi vihatā yena pārthivāḥ ||

76.1७६.१

वैशंपायन उवाच । (७६।१)

vaiśaṃpāyana uvāca

76.2७६.२

इत्येतद् वचनं श्रुत्वा बभूव विगतज्वरः । (७६।२)

ityetad vacanaṃ śrutvā babhūva vigatajvaraḥ |

76.3७६.३

युधिष्ठिरो महातेजाः पप्रच्छेदं च धर्मवित् ॥ (७६।३)

yudhiṣṭhiro mahātejāḥ papracchedaṃ ca dharmavit ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 13, 1

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit