महाभारतMahābhārata

MBh, 1, 121

121 of 1995 · 114 verses

Select a line for its word-by-word analysis.

1.1१.१

वैशंपायन उवाच । (१।१)

vaiśaṃpāyana uvāca

1.2१.२

विशेषार्थी ततो भीष्मः पौत्राणां विनयेप्सया । (१।२)

viśeṣārthī tato bhīṣmaḥ pautrāṇāṃ vinayepsayā |

1.3१.३

इष्वस्त्रज्ञान् पर्यपृच्छद् आचार्यान् वीर्यसंमतान् ॥ (१।३)

iṣvastrajñān paryapṛcchad ācāryān vīryasaṃmatān ||

2.1२.१

नाल्पधीर् नामहाभागस् तथानानास्त्रकोविदः । (२।१)

nālpadhīr nāmahābhāgas tathānānāstrakovidaḥ |

2.2२.२

नादेवसत्त्वो विनयेत् कुरून् अस्त्रे महाबलान् । (२।२)

nādevasattvo vinayet kurūn astre mahābalān |

2.3२.३

इति संचिन्त्य गाङ्गेयस्तदा भरतसत्तमः । (२।३)

iti saṃcintya gāṅgeyastadā bharatasattamaḥ |

2.4२.४

द्रोणाय वेदविदुषे भारद्वाजाय धीमते । (२।४)

droṇāya vedaviduṣe bhāradvājāya dhīmate |

2.5२.५

पाण्डवान् कौरवांश्चैव ददौ शिष्यान् नरर्षभ । (२।५)

pāṇḍavān kauravāṃścaiva dadau śiṣyān nararṣabha |

2.6२.६

शास्त्रतः पूजितश्चैव सम्यक् तेन महात्मना । (२।६)

śāstrataḥ pūjitaścaiva samyak tena mahātmanā |

2.7२.७

स भीष्मेण महाभागस्तुष्टो ऽस्त्रविदुषां वरः । (२।७)

sa bhīṣmeṇa mahābhāgastuṣṭo 'straviduṣāṃ varaḥ |

2.8२.८

प्रतिजग्राह तान् सर्वाञ् शिष्यत्वेन महायशाः । (२।८)

pratijagrāha tān sarvāñ śiṣyatvena mahāyaśāḥ |

2.9२.९

शिक्षयामास च द्रोणो धनुर्वेदम् अशेषतः । (२।९)

śikṣayāmāsa ca droṇo dhanurvedam aśeṣataḥ |

2.10२.१०

ते ऽचिरेणैव कालेन सर्वशस्त्रविशारदाः । (२।१०)

te 'cireṇaiva kālena sarvaśastraviśāradāḥ |

2.11२.११

बभूवुः कौरवा राजन् पाण्डवाश्चामितौजसः । (२।११)

babhūvuḥ kauravā rājan pāṇḍavāścāmitaujasaḥ |

2.12२.१२

जनमेजय उवाच । (२।१२)

janamejaya uvāca

2.13२.१३

वैशंपायन उवाच । (२।१३)

vaiśaṃpāyana uvāca

2.14२.१४

कथं समभवद् द्रोणः कथं चास्त्राण्यवाप्तवान् । (२।१४)

kathaṃ samabhavad droṇaḥ kathaṃ cāstrāṇyavāptavān |

2.15२.१५

कथं चागात् कुरून् ब्रह्मन् कस्य पुत्रः स वीर्यवान् । (२।१५)

kathaṃ cāgāt kurūn brahman kasya putraḥ sa vīryavān |

2.16२.१६

कथं चास्य सुतो जातः सो ऽश्वत्थामास्त्रवित्तमः । (२।१६)

kathaṃ cāsya suto jātaḥ so 'śvatthāmāstravittamaḥ |

2.17२.१७

एतद् इच्छाम्यहं श्रोतुं विस्तरेण प्रकीर्तय । (२।१७)

etad icchāmyahaṃ śrotuṃ vistareṇa prakīrtaya |

2.18२.१८

गङ्गाद्वारं प्रति महान् बभूव भगवान् ऋषिः । (२।१८)

gaṅgādvāraṃ prati mahān babhūva bhagavān ṛṣiḥ |

2.19२.१९

भरद्वाज इति ख्यातः सततं संशितव्रतः । (२।१९)

bharadvāja iti khyātaḥ satataṃ saṃśitavrataḥ |

2.20२.२०

सो ऽभिषेक्तुं ततो गङ्गां पूर्वम् एवागमन् नदीम् ॥ (२।२०)

so 'bhiṣektuṃ tato gaṅgāṃ pūrvam evāgaman nadīm ||

3.1३.१

महर्षिस्तु भरद्वाजो हविर्धाने चरन् पुरा । (३।१)

maharṣistu bharadvājo havirdhāne caran purā |

3.2३.२

ददर्शाप्सरसं साक्षाद् घृताचीम् आप्लुताम् ऋषिः । (३।२)

dadarśāpsarasaṃ sākṣād ghṛtācīm āplutām ṛṣiḥ |

3.3३.३

रूपयौवनसम्पन्नां मददृप्तां मदालसाम् ॥ (३।३)

rūpayauvanasampannāṃ madadṛptāṃ madālasām ||

4.1४.१

तस्या वायुः समुद्धूतो वसनं व्यपकर्षत । (४।१)

tasyā vāyuḥ samuddhūto vasanaṃ vyapakarṣata |

4.2४.२

तद्गुह्यदर्शनाद् अस्या रागो ऽजायत चेतसि । (४।२)

tadguhyadarśanād asyā rāgo 'jāyata cetasi |

4.3४.३

ततो ऽस्य रेतश्चस्कन्द तद् ऋषिर् द्रोण आदधे । (४।३)

tato 'sya retaścaskanda tad ṛṣir droṇa ādadhe |

4.4४.४

व्यपकृष्टाम्बरां दृष्ट्वा ताम् ऋषिश्चकमे ततः । (४।४)

vyapakṛṣṭāmbarāṃ dṛṣṭvā tām ṛṣiścakame tataḥ |

4.5४.५

तत्र संसक्तमनसो भरद्वाजस्य धीमतः । (४।५)

tatra saṃsaktamanaso bharadvājasya dhīmataḥ |

4.6४.६

रम्यगुह्यस्थलां नृप । (४।६)

ramyaguhyasthalāṃ nṛpa |

4.7४.७

पीनोत्तुङ्गकुचां दृष्ट्वा ॥ (४।७)

pīnottuṅgakucāṃ dṛṣṭvā ||

5.1५.१

तस्मिन् समभवद् द्रोणः कलशे तस्य धीमतः । (५।१)

tasmin samabhavad droṇaḥ kalaśe tasya dhīmataḥ |

5.2५.२

अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्वशः । (५।२)

adhyagīṣṭa sa vedāṃśca vedāṅgāni ca sarvaśaḥ |

5.3५.३

अग्नेर् अस्त्रम् उपादाय यद् ऋषिर् वेद काश्यपः । (५।३)

agner astram upādāya yad ṛṣir veda kāśyapaḥ |

5.4५.४

अध्यगच्छद् भरद्वाजस्तद् अस्त्रं देवकारितम् ॥ (५।४)

adhyagacchad bharadvājastad astraṃ devakāritam ||

6.1६.१

अग्निवेश्यं महाभागं भरद्वाजः प्रतापवान् । (६।१)

agniveśyaṃ mahābhāgaṃ bharadvājaḥ pratāpavān |

6.2६.२

प्रत्यपादयद् आग्नेयम् अस्त्रं धर्मभृतां वरः ॥ (६।२)

pratyapādayad āgneyam astraṃ dharmabhṛtāṃ varaḥ ||

7.1७.१

अग्निष्टुज्जातः स मुनिस्ततो भरतसत्तम । (७।१)

agniṣṭujjātaḥ sa munistato bharatasattama |

7.2७.२

भ्राता भ्रातरम् अन्तिके । (७।२)

bhrātā bhrātaram antike |

7.3७.३

अग्निवेश्यस्तदा द्रोणं । (७।३)

agniveśyastadā droṇaṃ |

7.4७.४

भारद्वाजं तदाग्नेयं महास्त्रं प्रत्यपादयत् । (७।४)

bhāradvājaṃ tadāgneyaṃ mahāstraṃ pratyapādayat |

7.5७.५

स वै युक्तो गुरुर् इह यदीच्छेत् कृपणः सुखम् । (७।५)

sa vai yukto gurur iha yadīcchet kṛpaṇaḥ sukham |

7.6७.६

भीष्मो ऽप्यलपद् एवं स भारद्वाजपरीप्सया ॥ (७।६)

bhīṣmo 'pyalapad evaṃ sa bhāradvājaparīpsayā ||

8.1८.१

भरद्वाजसखा चासीत् पृषतो नाम पार्थिवः । (८।१)

bharadvājasakhā cāsīt pṛṣato nāma pārthivaḥ |

8.2८.२

तस्यापि द्रुपदो नाम तदा समभवत् सुतः ॥ (८।२)

tasyāpi drupado nāma tadā samabhavat sutaḥ ||

9.1९.१

स नित्यम् आश्रमं गत्वा द्रोणेन सह पार्षतः । (९।१)

sa nityam āśramaṃ gatvā droṇena saha pārṣataḥ |

9.2९.२

चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः ॥ (९।२)

cikrīḍādhyayanaṃ caiva cakāra kṣatriyarṣabhaḥ ||

10.1१०.१

ततो व्यतीते पृषते स राजा द्रुपदो ऽभवत् । (१०।१)

tato vyatīte pṛṣate sa rājā drupado 'bhavat |

10.2१०.२

पाञ्चालेषु महाबाहुर् उत्तरेषु नरेश्वरः ॥ (१०।२)

pāñcāleṣu mahābāhur uttareṣu nareśvaraḥ ||

11.1११.१

भरद्वाजो ऽपि भगवान् आरुरोह दिवं तदा । (११।१)

bharadvājo 'pi bhagavān āruroha divaṃ tadā |

11.2११.२

तत्रैव च वसन् द्रोणस्तपस्तेपे महातपाः । (११।२)

tatraiva ca vasan droṇastapastepe mahātapāḥ |

11.3११.३

वेदवेदाङ्गविद्वान् स तपसा दग्धकिल्बिषः । (११।३)

vedavedāṅgavidvān sa tapasā dagdhakilbiṣaḥ |

11.4११.४

ततः पितृनियुक्तात्मा पुत्रलोभान् महायशाः । (११।४)

tataḥ pitṛniyuktātmā putralobhān mahāyaśāḥ |

11.5११.५

शारद्वतीं ततो द्रोणः कृपीं भार्याम् अविन्दत ॥ (११।५)

śāradvatīṃ tato droṇaḥ kṛpīṃ bhāryām avindata ||

12.1१२.१

अग्निहोत्रे च धर्मे च दमे च सततं रता । (१२।१)

agnihotre ca dharme ca dame ca satataṃ ratā |

12.2१२.२

अलभद् गौतमी पुत्रम् अश्वत्थामानम् एव च ॥ (१२।२)

alabhad gautamī putram aśvatthāmānam eva ca ||

13.1१३.१

स जातमात्रो व्यनदद् यथैवोच्चैःश्रवा हयः । (१३।१)

sa jātamātro vyanadad yathaivoccaiḥśravā hayaḥ |

13.2१३.२

तच्छ्रुत्वान्तर्हितं भूतम् अन्तरिक्षस्थम् अब्रवीत् ॥ (१३।२)

tacchrutvāntarhitaṃ bhūtam antarikṣastham abravīt ||

14.1१४.१

अश्वस्येवास्य यत् स्थाम नदतः प्रदिशो गतम् । (१४।१)

aśvasyevāsya yat sthāma nadataḥ pradiśo gatam |

14.2१४.२

अश्वत्थामैव बालो ऽयं तस्मान् नाम्ना भविष्यति ॥ (१४।२)

aśvatthāmaiva bālo 'yaṃ tasmān nāmnā bhaviṣyati ||

15.1१५.१

सुतेन तेन सुप्रीतो भारद्वाजस्ततो ऽभवत् । (१५।१)

sutena tena suprīto bhāradvājastato 'bhavat |

15.2१५.२

तत्रैव च वसन् धीमान् धनुर्वेदपरो ऽभवत् ॥ (१५।२)

tatraiva ca vasan dhīmān dhanurvedaparo 'bhavat ||

16.1१६.१

स शुश्राव महात्मानं जामदग्न्यं परंतपम् । (१६।१)

sa śuśrāva mahātmānaṃ jāmadagnyaṃ paraṃtapam |

16.2१६.२

सर्वज्ञानविदं विप्रं सर्वशस्त्रभृतां वरम् । (१६।२)

sarvajñānavidaṃ vipraṃ sarvaśastrabhṛtāṃ varam |

16.3१६.३

ब्राह्मणेभ्यस्तदा राजन् दित्सन्तं वसु सर्वशः । (१६।३)

brāhmaṇebhyastadā rājan ditsantaṃ vasu sarvaśaḥ |

16.4१६.४

स रामस्य धनुर्वेदं दिव्यान्यस्त्राणि चैव ह । (१६।४)

sa rāmasya dhanurvedaṃ divyānyastrāṇi caiva ha |

16.5१६.५

श्रुत्वा तेषु मनश्चक्रे नीतिशास्त्रे तथैव च । (१६।५)

śrutvā teṣu manaścakre nītiśāstre tathaiva ca |

16.6१६.६

ततः स व्रतिभिः शिष्यैस्तपोयुक्तैर् महातपाः । (१६।६)

tataḥ sa vratibhiḥ śiṣyaistapoyuktair mahātapāḥ |

16.7१६.७

वृतः प्रायान् महाबाहुर् महेन्द्रं पर्वतोत्तमम् । (१६।७)

vṛtaḥ prāyān mahābāhur mahendraṃ parvatottamam |

16.8१६.८

ततो महेन्द्रम् आसाद्य भारद्वाजो महातपाः । (१६।८)

tato mahendram āsādya bhāradvājo mahātapāḥ |

16.9१६.९

क्षान्तं दान्तम् अमित्रघ्नम् अपश्यद् भृगुनन्दनम् । (१६।९)

kṣāntaṃ dāntam amitraghnam apaśyad bhṛgunandanam |

16.10१६.१०

ततो द्रोणो वृतः शिष्यैर् उपगम्य भृगूद्वहम् । (१६।१०)

tato droṇo vṛtaḥ śiṣyair upagamya bhṛgūdvaham |

16.11१६.११

आचख्यावात्मनो नाम जन्म चाङ्गिरसः कुले । (१६।११)

ācakhyāvātmano nāma janma cāṅgirasaḥ kule |

16.12१६.१२

निवेद्य शिरसा भूमौ पादौ चैवाभ्यवादयत् । (१६।१२)

nivedya śirasā bhūmau pādau caivābhyavādayat |

16.13१६.१३

ततस्तं सर्वम् उत्सृज्य वनं जिगमिषुं तदा । (१६।१३)

tatastaṃ sarvam utsṛjya vanaṃ jigamiṣuṃ tadā |

16.14१६.१४

शस्त्रास्त्रेषु च निष्णातं श्रुत्वा तत्र समागतम् । (१६।१४)

śastrāstreṣu ca niṣṇātaṃ śrutvā tatra samāgatam |

16.15१६.१५

तम् अब्रवीन् महात्मा स सर्वक्षत्रियमर्दनः । (१६।१५)

tam abravīn mahātmā sa sarvakṣatriyamardanaḥ |

16.16१६.१६

स्वागतं ते द्विजश्रेष्ठ यद् इच्छसि वदस्व मे । (१६।१६)

svāgataṃ te dvijaśreṣṭha yad icchasi vadasva me |

16.17१६.१७

एवम् उक्तस्तु रामेण भारद्वाजो ऽब्रवीद् वचः ॥ (१६।१७)

evam uktastu rāmeṇa bhāradvājo 'bravīd vacaḥ ||

17.1१७.१

वनं तु प्रस्थितं रामं भारद्वाजस्तदाब्रवीत् । (१७।१)

vanaṃ tu prasthitaṃ rāmaṃ bhāradvājastadābravīt |

17.2१७.२

भरद्वाजात् समुत्पन्नं तथा त्वं माम् अयोनिजम् । (१७।२)

bharadvājāt samutpannaṃ tathā tvaṃ mām ayonijam |

17.3१७.३

आगतं वित्तकामं मां विद्धि द्रोणं द्विजर्षभम् । (१७।३)

āgataṃ vittakāmaṃ māṃ viddhi droṇaṃ dvijarṣabham |

17.4१७.४

रामं प्रहरतां श्रेष्ठं दित्सन्तं विविधं वसु । (१७।४)

rāmaṃ praharatāṃ śreṣṭhaṃ ditsantaṃ vividhaṃ vasu |

17.5१७.५

अहं धनम् अनन्तं हि प्रार्थये विपुलव्रत ॥ (१७।५)

ahaṃ dhanam anantaṃ hi prārthaye vipulavrata ||

18.1१८.१

राम उवाच । (१८।१)

rāma uvāca

18.2१८.२

हिरण्यं मम यच्चान्यद् वसु किंचन विद्यते । (१८।२)

hiraṇyaṃ mama yaccānyad vasu kiṃcana vidyate |

18.3१८.३

ब्राह्मणेभ्यो मया दत्तं सर्वम् एव तपोधन ॥ (१८।३)

brāhmaṇebhyo mayā dattaṃ sarvam eva tapodhana ||

19.1१९.१

तथैवेयं धरा देवी सागरान्ता सपत्तना । (१९।१)

tathaiveyaṃ dharā devī sāgarāntā sapattanā |

19.2१९.२

कश्यपाय मया दत्ता कृत्स्ना नगरमालिनी ॥ (१९।२)

kaśyapāya mayā dattā kṛtsnā nagaramālinī ||

20.1२०.१

शरीरमात्रम् एवाद्य मयेदम् अवशेषितम् । (२०।१)

śarīramātram evādya mayedam avaśeṣitam |

20.2२०.२

अस्त्राणि च महार्हाणि शस्त्राणि विविधानि च । (२०।२)

astrāṇi ca mahārhāṇi śastrāṇi vividhāni ca |

20.3२०.३

अस्त्राणि वा शरीरं वा वरयैतन् मयोद्यतम् । (२०।३)

astrāṇi vā śarīraṃ vā varayaitan mayodyatam |

20.4२०.४

वृणीष्व किं प्रयच्छामि तुभ्यं द्रोण वदाशु तत् ॥ (२०।४)

vṛṇīṣva kiṃ prayacchāmi tubhyaṃ droṇa vadāśu tat ||

21.1२१.१

द्रोण उवाच । (२१।१)

droṇa uvāca

21.2२१.२

अस्त्राणि मे समग्राणि ससंहाराणि भार्गव । (२१।२)

astrāṇi me samagrāṇi sasaṃhārāṇi bhārgava |

21.3२१.३

सप्रयोगरहस्यानि दातुम् अर्हस्यशेषतः । (२१।३)

saprayogarahasyāni dātum arhasyaśeṣataḥ |

21.4२१.४

एतद् वसु वसूनां हि सर्वेषां विप्रसत्तम । (२१।४)

etad vasu vasūnāṃ hi sarveṣāṃ viprasattama |

21.5२१.५

राम उवाच । (२१।५)

rāma uvāca

21.6२१.६

प्रयच्छ भगवन् मह्यं वरम् एतन् मया वृतम् । (२१।६)

prayaccha bhagavan mahyaṃ varam etan mayā vṛtam |

21.7२१.७

कृतार्थं च भविष्यामि वरं लब्ध्वा द्विजोत्तम । (२१।७)

kṛtārthaṃ ca bhaviṣyāmi varaṃ labdhvā dvijottama |

21.8२१.८

प्रतिगृह्णीष्व विप्रेन्द्र द्रोण मत्तो यदीच्छसि । (२१।८)

pratigṛhṇīṣva viprendra droṇa matto yadīcchasi |

21.9२१.९

वरं तव ददाम्यद्य यद् उक्तं ते द्विजोत्तम । (२१।९)

varaṃ tava dadāmyadya yad uktaṃ te dvijottama |

21.10२१.१०

गृहाणास्त्राणि दिव्यानि धनुर्वेदं च मामकम् । (२१।१०)

gṛhāṇāstrāṇi divyāni dhanurvedaṃ ca māmakam |

21.11२१.११

सपुत्रस्य ददाम्येतत् तव द्रोण महद् वरम् । (२१।११)

saputrasya dadāmyetat tava droṇa mahad varam |

21.12२१.१२

कृतार्थो गच्छ विप्रेन्द्र गच्छ चैव यथागतम् । (२१।१२)

kṛtārtho gaccha viprendra gaccha caiva yathāgatam |

21.13२१.१३

कृतास्त्रश्चैव शूरश्च सर्वशास्त्रविशारदः । (२१।१३)

kṛtāstraścaiva śūraśca sarvaśāstraviśāradaḥ |

21.14२१.१४

अश्वत्थामेति विख्यातो भविष्यति महारथः ॥ (२१।१४)

aśvatthāmeti vikhyāto bhaviṣyati mahārathaḥ ||

22.1२२.१

वैशंपायन उवाच । (२२।१)

vaiśaṃpāyana uvāca

22.2२२.२

तथेत्युक्त्वा ततस्तस्मै प्रादाद् अस्त्राणि भार्गवः । (२२।२)

tathetyuktvā tatastasmai prādād astrāṇi bhārgavaḥ |

22.3२२.३

सरहस्यव्रतं चैव धनुर्वेदम् अशेषतः ॥ (२२।३)

sarahasyavrataṃ caiva dhanurvedam aśeṣataḥ ||

23.1२३.१

प्रतिगृह्य तु तत् सर्वं कृतास्त्रो द्विजसत्तमः । (२३।१)

pratigṛhya tu tat sarvaṃ kṛtāstro dvijasattamaḥ |

23.2२३.२

प्रियं सखायं सुप्रीतो जगाम द्रुपदं प्रति ॥ (२३।२)

priyaṃ sakhāyaṃ suprīto jagāma drupadaṃ prati ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 1, 121

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit