MBh, 3, 109
Select a line for its word-by-word analysis.
अचिन्त्यान् अद्भुतान् भावान् ददर्श सुबहून् नृपः ॥ (२।२)
acintyān adbhutān bhāvān dadarśa subahūn nṛpaḥ ||
वायुर् नित्यं ववौ यत्र नित्यं देवश्च वर्षति । (४।१)
vāyur nityaṃ vavau yatra nityaṃ devaśca varṣati |
एवं बहुविधान् भावान् अद्भुतान् वीक्ष्य पाण्डवः । (५।१)
evaṃ bahuvidhān bhāvān adbhutān vīkṣya pāṇḍavaḥ |
लोमशं पुनर् एव स्म पर्यपृच्छत् तद् अद्भुतम् ॥ (५।२)
lomaśaṃ punar eva sma paryapṛcchat tad adbhutam ||
यथाश्रुतम् इदं पूर्वम् अस्माभिर् अरिकर्शन । (६।२)
yathāśrutam idaṃ pūrvam asmābhir arikarśana |
स वै संभाष्यमाणो ऽन्यैः कोपाद् गिरिम् उवाच ह । (८।१)
sa vai saṃbhāṣyamāṇo 'nyaiḥ kopād girim uvāca ha |
य इह व्याहरेत् कश्चिद् उपलान् उत्सृजेस् तदा ॥ (८।२)
ya iha vyāharet kaścid upalān utsṛjes tadā ||
कृतानि कानिचित् कोपात् प्रतिषिद्धानि कानिचित् ॥ (१०।२)
kṛtāni kānicit kopāt pratiṣiddhāni kānicit ||
नन्दाम् अभिगतान् देवान् पुरा राजन्न् इति श्रुतिः । (११।१)
nandām abhigatān devān purā rājann iti śrutiḥ |
ते दर्शनम् अनिच्छन्तो देवाः शक्रपुरोगमाः । (१२।१)
te darśanam anicchanto devāḥ śakrapurogamāḥ |
दुर्गं चक्रुर् इमं देशं गिरिप्रत्यूहरूपकम् ॥ (१२।२)
durgaṃ cakrur imaṃ deśaṃ giripratyūharūpakam ||
नाशक्नुवन् अभिद्रष्टुं कुत एवाधिरोहितुम् ॥ (१३।२)
nāśaknuvan abhidraṣṭuṃ kuta evādhirohitum ||
आरोढुं वापि कौन्तेय तस्मान् नियतवाग् भव ॥ (१४।२)
āroḍhuṃ vāpi kaunteya tasmān niyatavāg bhava ||
इह देवाः सदा सर्वे यज्ञान् आजह्रुर् उत्तमान् । (१५।१)
iha devāḥ sadā sarve yajñān ājahrur uttamān |
तेषाम् एतानि लिङ्गानि दृश्यन्ते ऽद्यापि भारत ॥ (१५।२)
teṣām etāni liṅgāni dṛśyante 'dyāpi bhārata ||
कुशाकारेव दूर्वेयं संस्तीर्णेव च भूर् इयम् । (१६।१)
kuśākāreva dūrveyaṃ saṃstīrṇeva ca bhūr iyam |
तेषां सायं तथा प्रातर्दृश्यते हव्यवाहनः ॥ (१७।२)
teṣāṃ sāyaṃ tathā prātardṛśyate havyavāhanaḥ ||
इहाप्लुतानां कौन्तेय सद्यः पाप्मा विहन्यते । (१८।१)
ihāplutānāṃ kaunteya sadyaḥ pāpmā vihanyate |
कुरुश्रेष्ठाभिषेकं वै तस्मात् कुरु सहानुजः ॥ (१८।२)
kuruśreṣṭhābhiṣekaṃ vai tasmāt kuru sahānujaḥ ||
ततो नन्दाप्लुताङ्गस् त्वं कौशिकीम् अभियास्यसि । (१९।१)
tato nandāplutāṅgas tvaṃ kauśikīm abhiyāsyasi |
विश्वामित्रेण यत्रोग्रं तपस् तप्तम् अनुत्तमम् ॥ (१९।२)
viśvāmitreṇa yatrograṃ tapas taptam anuttamam ||
जगाम कौशिकीं पुण्यां रम्यां शिवजलां नदीम् ॥ (२०।३)
jagāma kauśikīṃ puṇyāṃ ramyāṃ śivajalāṃ nadīm ||
Data courtesy of The Digital Corpus of Sanskrit.